Wednesday, 5 June 2019

15 August Essay / Speech in sanskrit

15 August Essay / Speech in sanskrit

अस्माकं देशः पुरा आंग्लाशासकाधीनः आसीत्। अनेके महापुरुषा:स्वातंत्र्यप्राप्त्यर्थ महान्तं प्रयत्नमकुर्वन्। तेषां महता प्रयत्नेन भारतः 1947 तमे ईशवीये अगस्तमासस्य पंचदशमे दिनांके स्वतंत्रो जातः। महात्मा गांधी, नेहरू, लोकमान्य तिलक प्रभृतयः महान्तः देशभक्ताः आसन्। तेषां बलिदानेन एव वयं स्वाधीनतां लब्धं समर्थाः अभवाम्। तस्मान् दिनात् आरभ्य प्रतिवर्षं 15 अगस्त अयं दिनः राष्ट्रीय पर्वरूपेण भारतीयाः मानयन्ति।अस्मिन् दिने विद्यालयेषु कार्यालयेषु वा पूर्णावकाशः भवति। राजधान्यां दिल्लीनगरे रक्तदुर्गस्योपरि प्रधानमंत्रिणा राष्ट्रध्वजोत्तलनं क्रीयते, भाषणं च दीयते। देशस्य अन्येषु नगरेषु अपि राज्यपालैः उपराज्यपालैः वा राष्ट्रध्वजोत्तलनं क्रीयते। विद्यालयेषु अपि प्रधानाचार्यः भाषणं करोति, छात्राः राष्ट्रगानं गायन्ति। स्वतंत्रतादिवसे सर्वे तान् महापुरुषान् स्मरन्ति यैः देशस्य कृते प्राणार्पणं कृतम्। स्वतंत्र देशस्य रक्षणं अस्माकं सर्वेषां प्रथमं कर्तव्यम्।।


SHARE THIS

Author:

I am writing to express my concern over the Hindi Language. I have iven my views and thoughts about Hindi Language. Hindivyakran.com contains a large number of hindi litracy articles.

0 comments: