गहिरा गुरु की संस्कृत में जीवनी। Gahira Guru ka Jeevan Parichay in Sanskrit. श्रीगहिरागुरुः महान् समाजसुधारकः दार्शनिकः तपस्वी च आसीत्। तस्य जन्मः पञ्चाधिकएकोनविंशतिशततमे (1905) ख्रीस्ताब्दे रायगढ़मण्डलान्तर्गते गहिराग्रामेघ्भवत्। तत्रभवतः पिता श्रीबुडकीकँवरमहोदयः सम्पन्नो कृषकः जनजातीयसमूहस्य ग्रामप्रमुखः च आसीत्। मातुर्नाम् श्रीमतीसुमित्रादेवी आसीत्। गहिरागुरोः वास्तविकं नाम श्रीरामेश्वरकँवरः आसीत्। अन्येषां बालकानां सदृशः तस्य बाल्यकालः प्रकृत्याः सान्निध्ये व्यतीतः। किशोरावस्थायां रामेश्वरकँवरः गंभीरप्रवृत्तिं प्राप्तवान्। जनजातीयसमूहस्य दुरवस्थां विलोक्य सः भृशं दुःखी आसीत्। तत्रभवान् तान् आत्मनिर्भरकरणार्थं भगीरथप्रयत्नं कृतवान्। एकदा रामेश्वरकँवरः टीपाझरननाम्नि स्थाने अष्टदिनात्मकं अहर्निशं साधनामकरोत्। सः जनान् उपदिशति स्म। गहिराग्रामे सः शिवमन्दिरस्य निर्माणमपि कृतवान्। मन्दिरस्य प्रांगणे च प्रतिदिनं कीर्तनं करोति स्म। सः रात्रौ भगवद्चिन्तनं कुर्वन् वने इतश्ततश्च भ्रमति स्म। यदा कदा सः समाधिमपि अधिगच्छति स्म।
किशोरावस्थायां रामेश्वरकँवरः गंभीरप्रवृत्तिं प्राप्तवान्। जनजातीयसमूहस्य दुरवस्थां विलोक्य सः भृशं दुःखी आसीत्। तत्रभवान् तान् आत्मनिर्भरकरणार्थं भगीरथप्रयत्नं कृतवान्। एकदा रामेश्वरकँवरः टीपाझरननाम्नि स्थाने अष्टदिनात्मकं अहर्निशं साधनामकरोत्। सः जनान् उपदिशति स्म। गहिराग्रामे सः शिवमन्दिरस्य निर्माणमपि कृतवान्। मन्दिरस्य प्रांगणे च प्रतिदिनं कीर्तनं करोति स्म। सः रात्रौ भगवद्चिन्तनं कुर्वन् वने इतश्ततश्च भ्रमति स्म। यदा कदा सः समाधिमपि अधिगच्छति स्म। शनैः शनैः तस्य सम्बोधनं गहिरागुरुः जातम्। सः जनजातीयसमूहस्य नेतृत्वम् अकरोत्। स्वभावतः जनेषु लोकप्रियः अभवत्।
गृहस्थजीवनं व्यतीतं कुर्वन् गहिरागुरुः लोककल्याणे अनवरतं संलग्नः जातः। अनेकेषु स्थानेषु तेन शिक्षासंस्थानानि संस्थापितानि। तेषु संस्कृतपाठशालाः, आश्रमविद्यालयाः महाविद्यालयाःच सन्ति। जीवने शिक्षायाः महत्त्वं निर्विवादम्। तस्मात् कारणात् कालान्तरे सः वंचितसमुदायस्य छात्रेभ्यः अनेकान् छात्रावासान् चापि प्रारभयामास। बहवः जनाः संस्थाष्च तस्य कल्याणकारीकार्यक्रमेषु सहयोगं दत्तवन्तः। तदनन्तरं शासकीयानुदानेन तानि शिक्षासंस्थानानि गतिं प्राप्तानि।
निजसमुदायस्य विकासाय त्रिचत्वारिंशतधिकोत्तरएकोनविंशतिशततमे (1943) ख्रीस्ताब्दे सः गहिराग्रामे सनातनसन्तसमाजनाम संस्थां स्थापयत्। सः वाञ्छति स्म यत् जनाः व्यक्ति महत्वं विहाय संगठनेन योजयेयुः।
गुरुमहोदयस्य शिक्षायाः सारः अस्ति - सत्यं, शान्तिः, दया क्षमा च। ततः सः सात्विकजीवनयापनाय उपदेशं दत्तवान्। जनान् स्वच्छतायाः महत्वं अवबोधयत्। तस्य व्यक्तित्वे ईदृशं आकर्षणमासीत् यत् जनाः सहजैव भाविताः संजाताः। उत्तरोत्तरं अनुयायीनाम् अभिवर्धनम् अभवत्। गहिरागुरोः ते अनुयायिनः ग्रामे ग्रामे भ्रमन् तस्य विचारस्य प्रसारं प्रचारं च कृतवन्तः।
सप्तचत्वारिंशतधिकोत्तरएकोनविंशतिशततमे (1947) ख्रीस्ताब्दे भारतस्य स्वतंत्रतायाः समये यदा नौवाखलीस्थाने भीषणोपद्रवः अभवत् तदा गहिरागुरुः गांधिमहोदयेन सह जनान् शांतिव्यवस्थायै न्यवेदयत्। समाजसेवायां तस्य उल्लेखनीययोगदानं नूनं पुरस्करणीयम्।
षडशीत्यधिकोत्तरसप्ताशीत्यधिकोत्तर--एकोनविंशतिशततमे (1986-87) ख्रीस्ताब्दे सः ’इन्दिरागांधी राष्ट्रियसमाजसेवा’ पुरस्कारेण सम्मानितः जातः। नवम्बरमासे एकविंशत्यां दिनाँके वत्याधिकोत्तरेकविंशतितमे (21 नवंबर, 1996) ख्रीस्ताब्दे गहिरागुरोः देहावसानभवत्। मरणोपरान्ते गुरुमहोदयः मध्यप्रदेशशासनेन’ बिरसामुण्डाआदिवासीसेवा’ पुरस्कारेण सम्मानितं जातम्। तत्पश्चात् शहीदवीरनारायणसिंहपुरस्कारं च लब्धवान्। तस्य स्मृतौ छत्तीसगढशासनेन गहिरागुरुपर्यावरणं पुरस्कारं उद्घोषितम्।
तथ्यमिदमस्ति यत् जनानां प्रेम स्नेहं च गहिरागुरवे वास्तविकः पुरस्कारः वर्तते। अद्यापि जनाः तम् आदरपूर्वकं स्मरन्ति।
Admin

100+ Social Counters
WEEK TRENDING
Loading...
YEAR POPULAR
गम् धातु के रूप संस्कृत में – Gam Dhatu Roop In Sanskrit यहां पढ़ें गम् धातु रूप के पांचो लकार संस्कृत भाषा में। गम् धातु का अर्थ होता है जा...
Riddles in Malayalam Language : In this article, you will get കടങ്കഥകൾ മലയാളം . kadamkathakal malayalam with answer are provided below. T...
अस् धातु के रूप संस्कृत में – As Dhatu Roop In Sanskrit यहां पढ़ें अस् धातु रूप के पांचो लकार संस्कृत भाषा में। अस् धातु का अर्थ होता...
पूस की रात कहानी का सारांश - Poos ki Raat Kahani ka Saransh पूस की रात कहानी का सारांश - 'पूस की रात' कहानी ग्रामीण जीवन से संबंधित ...
COMMENTS