बेटी बचाओ, बेटी पढ़ाओ पर संस्कृत निबंध (Beti Bachao Beti Padhao Essay in Sanskrit) पुत्री रक्ष्यतां, पुत्री पाठ्यतां योजना भारतसर्वकारेण भारतीयबालाभ्
बेटी बचाओ, बेटी पढ़ाओ पर संस्कृत निबंध (Beti Bachao Beti Padhao Essay in Sanskrit)
बेटी बचाओ बेटी पढ़ाओ पर संस्कृत निबंध: पुत्री रक्ष्यतां, पुत्री पाठ्यतां योजना (बेटी बचाओ, बेटी पढ़ाओ,) भारतसर्वकारेण भारतीयबालाभ्यः उद्घोषिता। २२ जनवरी २०१५ दिनाङ्के एतस्याः योजनायाः उद्घाटनं स्वयं प्रधानमन्त्री नरेन्द्रमोदी अकरोत्। प्रधानमन्त्री नरेन्द्रमोदी एतस्याः "पुत्री रक्ष्यतां, पुत्री पाठ्यतां"-योजनायाः उद्घाटनं हरियाणा-राज्यस्य पानीपत-नगरे अकरोत्। एतस्य पृष्ठे किञ्चन विशेषं कारणम् अपि आसीत्। आभारतं हरियाणा-राज्ये एव कन्यालिङ्गानुपातः सर्वाधिकः न्यूनः अस्ति। तत्र १००० बालकेषु बालिकानां सङ्ख्या ८७४ एव अस्ति। अतः सम्पूर्णस्य भारतस्य येषां शतस्य मण्डलानां चयनम् अभवत्, तेषु द्वादशानि मण्डलानि तु हरियाणा-राज्यस्य एव सन्ति। तेषां नामानि – रेवाडीमण्डलम्, महेन्द्रगढमण्डलम्, भिवानीमण्डलम्, झज्जरमण्डलम्, अम्बालामण्डलम्, कुरुक्षेत्रमण्डलम्, सोनीपतमण्डलम्, रोहतकमण्डलम्, करनालमण्डलम्, कैथलमण्डलम्, पानीपतमण्डलम्, यमुनानगरमण्डलम्।
बालिकानाम् अस्तित्वसंरक्षणाय, सशक्तिकरणस्य सुनिश्चयार्थं च समन्विताः, सम्मिलिताः च प्रयासाः अपेक्ष्यन्ते। अत एव सर्वकारः "पुत्री रक्ष्यतां, पुत्री पाठ्यताम्" (“बेटी बचाओ बेटी पढ़ाओ”) इत्येतां योजानाम् अघोषयत्। राष्ट्रियाभियानत्वेन एतस्याः योजनायाः कार्यान्वयं स्यादिति सर्वकारस्य परियोजना अस्ति। अतः सर्वेषु राज्येषु, केन्द्रशासितप्रदेशेषु च तेषां शतस्य मण्डलानां चयनं भविष्यति, येषु कन्यालिङ्गानुपातः अतीव न्यूनः अस्ति। तेषां शतस्य मण्डलानाम् उपरि ध्यानं केन्द्रितं कृत्वा विभिन्नानां जागरूकताभियानानां माध्यमेन परिस्थितिपरिवर्तनाय प्रयासाः भविष्यन्ति। एतस्मिन् अभियाने केन्द्रसर्वकारस्य त्रयः मन्त्रालयाः मिलित्वा कार्यं करिष्यन्ति।
COMMENTS