वायु पर संस्कृत निबंध (Essay on Air in Sanskrit)
वायु पर संस्कृत निबंध: वायुः अस्माकं जीवनस्य अत्यावश्यकं तत्त्वं वर्तते। वायुं विना जीवनम् असम्भवम् अस्ति। प्रतिदिनं वयं द्विवारं त्रिवारं वा भोजनं कुर्मः । एकस्मिन् दिवसे अपि अनेकवारं वयं जलं पिबामः। किन्तु श्वसनं वयं प्रतिक्षणं कुर्मः। जीवनाय वायुः सर्वेभ्यः जीवेभ्यः आवश्यकः वर्तते ।
पृथिव्याः परितः वायूनाम् आवरणम् अस्ति। तत् आवरणं वायुमण्डलं कथ्यते। जीवनाय वायवः वायुमण्डलात् प्राप्यन्ते। सूर्यस्य हानिकारकाणां किरणानां प्रभावात् वायुमण्डलम् अस्मान् रक्षति। यदि वायुमण्डलं न भवेत्, तर्हि दिवसे सूर्यकिरणानां तापेन वयं ज्वलितुं शक्नुमः। अयं वायुराशिः उच्यते येन निवासयोग्यं पृथिव्याः तापमानं भवति।
वायुमण्डलं विभिन्नवायूनां मिश्रणम् अस्ति। एभिः वायुभिः पृथिवी आच्छादिता वर्तते। अस्मिन् वायुमण्डले मनुष्याणां जन्तूनां च जीवनाय आवश्यकवायुः ऑक्सीजन् इति प्राप्यते। पादपेभ्यः कार्बन् डाई ऑक्साइड् इति वायुः अपि वायुमण्डले प्राप्यते। वायुः वर्णहीनः, गन्धहीनः च भवति। यदा वायुः प्रवहति, तदा पवनः कथ्यते। पवनः अनुभवितुं शक्यते।
वायुमण्डलं वायुभिः, जलबाष्पेन, रजकणैः च निर्मितम् अस्ति। श्वसनक्रियायां वयं वायोः उपयोगं कुर्मः। वास्तविकतया वायुमण्डलम् अनेकानां वायूनां मिश्रणं भवति। वायुमण्डले बहवः वायवः प्राप्यन्ते। यथा – नाइट्रोजन्, ऑक्सीजन्, कार्बन् डाई ऑक्साइड्, हीलियम्, ऑजोन्, ऑर्गान्, हाइड्रोजन् च । तेषु नाइट्रोजन्, ऑक्सीजन् च वायुमण्डलस्य बृहत्तमेषु भागेषु प्राप्यते। अन्ये वायवः अल्पमात्रायां प्राप्यन्ते। वायुमण्डले रजकणाः अपि सन्ति ।
वायुमण्डले स्थितानां वायूनां द्रव्यमानम् अधः लिखितम् अस्ति ।
- नाइट्रोजन् (N2) ७८.८%
- ऑक्सीजन् (O2)२०.९५%
- आर्गान् (Ar) ०.९३%
- कार्बन् डाई ऑक्साइड् (CO2) ०.०३६%
- नीऑन् (Ne) ०.००२%
- हिलीयम् (He) ०.०००५%
- क्रेप्टो (Kr) ०.००१%
- जेनन (Xe) ०.००००९%
- हाईड्रोजन् (H2) ०.००००५%