पोंगल पर संस्कृत निबंध (Essay on Pongal in Sanskrit)
पोंगल पर संस्कृत निबंध : भारते नैके उत्सवाः सन्ति। तेषु एकः लोकप्रियः उत्सवः पोंगलोत्सवः। तमिळनाडुराज्ये 'पोंगल' इति उत्सवस्य नाम। भारतस्य बहुषु राज्येषु अस्य उत्सवस्य ’मकरसङ्क्रान्तिः’ अथवा ‘मकरसङ्क्रमणम्’ इति नाम। अस्मात् दिनात् परमपवित्रस्य उत्तरायणकालस्य आरम्भः। एतत् सूर्यस्य चलनसम्बद्धं पर्व। सूर्यस्य एकराशित: अन्यराशिं प्रतिप्रवेशदिनं सङ्क्रमणम् इति उच्यते। यस्मिन् समये सूर्यः मकरराशौ प्रविशति। एतद्दिने एव स्वर्गः द्वारोद्घाटनं क्रियते इति। परमपवित्रे अस्मिन् सङ्क्रमणदिने क्रियमाणं स्नान-दान-जप-तप-हवन-पूजा-तर्पण-श्राद्धादिकम् अधिकं फलप्रदम् इति वदन्ति शास्त्रपुराणानि। तद्दिने य: पापाचरणं करोति, य: पवित्रकर्माणि न आचरति स: पापभाक् भवति इत्यपि वदन्ति ज्ञानिन:।
अतः एषः उत्सवः अतीव मङ्गलमयः। पोंगलोत्सवस्य दिने सर्वे जनाः तिलगुडं प्रयच्छन्ति। तदा “तिलगुडं गृह्णातु मधुरं च वदन्तु” इति ते कथयन्ति। तिलगुडौ स्नेहस्य माधुर्यस्य च प्रतीकौ। शीतकाले तिलगुडौ शरीरस्य स्वास्थ्याय लाभपूर्णाः। अतः पोंगलोत्सवे जनाः तौ आनन्देन खादन्ति।
अयम् उत्सवः अस्माकं जीवनस्य महत्त्वपूर्णः भागः। एषः उत्सवः मह्यम् अतीव रोचते। पोंगलोत्सवस्य शुभाशयविषये इदम् एकं सुभाषितम् –