Saturday, 27 August 2022

जल प्रदूषण पर संस्कृत निबंध (Sanskrit essay on Water Pollution)

जल प्रदूषण पर संस्कृत निबंध (Sanskrit essay on Water Pollution)

जले यदा अनपेक्षितानि हानिकारकाणि विषयुक्तानि रासायनिकवस्तूनि, आम्लानि, तैलादीनि विलीयन्ते, तदा तादृशं जलं जीविनां प्राणधारणाय योग्यं न भवति। इदं जलप्रदूषणं इत्युच्यते। जलप्रदूषणं (Water pollution) प्रमुखेषु परिसरमालिन्येषु अन्यतमं विद्यते। सरोवराः, नद्यः, समुद्राः इत्यादिषु अनपेक्षितानां वस्तूनां संयोगेन जलमालिन्यं भविष्यति ।

जलप्रदूषणस्य एतानि प्रमुखानि कारणानि -पेट्रोलियम् तैलम्, डि.डि.टि इत्यादयः कीटनाशकाः, पि.सि.बि (पालि क्लोरिनेटड् बैफीनैल्) रासायनिकाः कीटनाशकाः, पारदः, क्याङ्मियम् आर्सैनिक् इत्यादिलोहाः, अणुशक्तिकारागारेभ्यः निसृतानि अनुपयोगीनि वस्तूनि नगरेभ्यः बहिः निष्कासितानि फेनकानि, तत्र प्रमुखानि । एवं विविधानि रासायनिकानि जलमालिन्यं कुर्वन्ति । जलजन्तूनां प्राणधरणाय जले वीलीनः आम्लजनकः अत्यावश्यकः । एतानि लवणानि जले विलीनं भूय आम्लजनकानिलं दुर्बलं कुर्वन्ति । एवं तस्मिन् मलिने जले जलजन्तवः जीवितुम् अशक्ताः भवन्ति म्रियन्ते च।

जल प्रदूषण पर संस्कृत निबंध (Sanskrit essay on Water Pollution)

जलं बहूनां लवणानां द्रावकम्। यदा जले विषयुक्तानि लवणानि विलीनानि, ताद्दशं जलं मनुष्यैः उपयुज्यते, तदा एते विषाः मनुष्याणां शरीरं प्रविशन्ति तेन च अश्रुता अज्ञातपूर्वाः रोगाः भवन्ति । भारतदेशे पूज्यायां गङ्गानद्यां यमुनायां च नगरीयैः कार्यागारैः निःसृतेभ्यः दूषणेभ्यः प्रतिदिनं जलमालिन्यं प्रभूतं सञ्जायते । अनेन नदीजलम् उपयोगाय अनर्हं भवति।

समुद्रजलस्य मालिन्यात् मीनाः अन्ये समुद्रजीविनः नितरां क्लिश्यन्ति, म्रियन्ते च। अन्तर्जलस्य प्रदूषणात् भूमेः उष्णतायाः जलस्थित्याः व्यत्ययः भवति येन वर्षाचक्रे व्यत्ययाः भवन्ति । जलमालिन्यं रोद्धुं बहवः प्रयत्नाः प्रशासनेन विद्येयकद्वारा योजिताः। ‘जलमालिन्यनियन्त्रणार्थं, तत्कृते प्रशासनस्यैकः विभागः तत्परः अपि च वर्तते ।

मलिनजलस्य स्रावेन नानाविधाः रोगाः जायन्ते। ताम्रम्, क्याड्मियम्, कोबाल्ट् लवणैः दूषितस्य जलस्य उपयोगेन क्यान्सर्, नररोगाः हृदयरोगाः जायन्ते। प्रदूषितजले स्नानकरणात् चर्मरोगाः प्रजायन्ते। पारद-लोहेन तत्संयुक्तलवणैश्च प्रदूषितस्य जलस्य सेवनात् "मिनिमा" इति नूतनः रोगः जायते। पारदेन प्रदूषितस्य जलस्य सेवनेन जपान् देशे क्रिस्ताब्दे १९५६ वर्षे मिनिमाट इति ग्रामे केचन जनाः नेत्रहीनाः बभूवुः। केचन उन्मत्ताः जाताः। केचन शरीरभागानां निश्चेष्टतां प्रापुः। एताद्दशरोगस्य हेतुपरिशीलनात्-पारदप्रदूषितस्य जलस्य सेवनेन एवं भवतीति ज्ञातम्। तदारभ्य एतादृशरोगस्य मिनिमाट -इत्येव निर्देशः कृतः। 

सर्वे स्वास्थ्यहेतोः शुद्धं जलमेव पिबेयुः। जलमालिन्यस्य नियन्त्रणाय सततं प्रयत्नः करणीयः। संस्कृतभाषायां जल्स्य जीवनमिति पर्यायपदं भवति । एवं जलमालिन्यं नाम जीवनमालिन्यमित्येव।

जलमालिन्यस्य कारणानि

जल-प्रदूषणस्य बहूनि कारणानि भवन्ति, परं मुख्यतया मानवाः एवास्य कारणीभूतः अस्ति । जनाः अस्योपयोगः समुचितरुपेण न कुर्वन्ति, अप्राकृतिकं कृत्यं कुर्वन्ति, जनसंख्या- वृध्दयाऽपि, प्रदूषणं भवति, औद्योगिकविस्तारेणापि प्रदूषणं भवति । सम्प्रति क्रमशः अस्य कारणानि प्रस्तूयन्ते ।

मनुष्याणां दैनिककृत्यम् वयं प्रतिदिनं स्नानं कुर्मः, वस्त्रं प्रच्छालयामः पाकं कुर्मः, शोचादिकञ्च कुर्मः । एतानि सर्वाणि कार्याणि जलेनैव भवति। परमितः परं तज्जलं प्रदूषितं भवति । तेन जलेन न किमपि कर्तुं शक्यते अस्माभिः । इदं प्रदूषितं जलं यदि समीचीनतया न विसृज्यते तर्हि इदं मुख्यजलस्त्रोतेन सह मिलित्वा तं प्रदूषयति । अर्थात् यस्य जलस्य उपयोगः वयं कुर्मः तेषां समीचीनं विसर्जनं न भवति । यथा कूपं, नलकूपं पार्श्वे एव वयं स्नानं कुर्मः अथवा तत्रैव तस्य जलस्य बहिर्गमनाय नलिकां (सीवर) कुर्मः, उच्छिष्ट –जलकुण्डं कुर्मः । एतेन नलकूपस्य, कूपस्य च जलं प्रदूषितं भवति। इदं कारणं सर्वप्रमुखं कारणमस्ति।

औद्योगिकम् अपशिष्टम्- औद्योगिकप्रतिष्ठानेषु यस्य जलस्य उपयोगः भवति उपयोगानन्तरं तस्मिन् अपशिष्टे जले लवणं, क्षारम्, आम्लं, विविधं गैसं च मिश्रितं भवति। अपि च तस्य औद्योगिक-अवशिष्टमिश्रितजलस्य विसर्जनं जलस्त्रोतेषु, नदिषु, तडागेषु, सरोवरेषु च भवति, येषां जलस्रोतस्थानां जलस्य उपयोगः मानवाः, पशवः, वनस्पतयः कुर्वन्ति। परं जलमिदं प्रदूषितं भवति अनया प्रक्रियया।

अपमार्जकस्योपयोगः- औद्योगीकरणस्य प्रतिफलं भवति यत् स्वच्छतायै विविधानामपमार्जकानां आविष्कारः जगति संजातः। एतेषामुपयोगः दिनामुदिनं वृध्दिं प्राप्नोति। अनेन कार्यद्वयं भवति। अपमार्जकयुक्तं जलं साक्षात् मुख्यजलस्रोतेषु मिलति अथवा पार्श्वविसर्जनेन परोक्षरुपेण जलस्रोतेषु मिलति। फलतः जलस्य उपरिभागे कश्चन आवरणस्वरुपम् आवरणिकायाः निर्माणं भवति। अर्थात् जलस्रोतानां जलमपमार्जकस्यावरणेन आवृतं भवति । तेन सूर्यस्य प्रकाशः जले प्रवेष्टुं नार्हति। परिणामतः जले पूर्णरुपेण आक्सीजनस्य मिश्रणं भवितुं नार्हति। जलं च प्रदूषितं भवति। 

कृषिरसायनम्- जनसंख्यावृध्द्या जगति खाद्यान्नस्य अभावः संजातः । खाद्यान्नस्य आपूर्यते जनाः कॄषिकार्येषु उर्वरकस्य उपयोगः अधिकतया कुर्वन्ति। ते उर्वरकाः शस्यानां कृते तु लाभदायकाः भवन्ति, परम् अस्माकं कृते हानिकराः भवन्ति। कृषिक्षेत्रेषु तेषामुर्वरकानाम् अवशिष्टाः, अपशिष्टाः वर्षामाध्यमेन विविधेषु जलस्रोतेषु मिलति। फलतः तत्र कार्यद्वयं भवति। प्रथमं तु जलस्रोतानां जलम् आवृतं भवति येन जलेषु आक्सीजनस्याभावः भवति अपि च द्वितीयः जले जलीय वनस्पतीन् उर्वराशक्तिं प्रदाय तान् वर्धयति, येन जलस्थस्य आक्सीजनस्य क्षयः भवति। फलतः जलं प्रदूषितं भवति।

कीटनाशकरसायनम्- प्रायः सर्वत्र कृषिक्षेत्रेषु कीटेभ्यः शस्यानां संरक्षणार्थं विविधकीटनाशकरसायनानामुपयोगः भवति। शस्यानां रक्षा तु भवति। परम् इदं रसायनोपशिष्टं वर्षामाध्यनेन विविधेषु जलस्रोतेषु मिलति। अनेन जलस्रोतानां जलं प्रदूषितं भवति । यतः इदं रसायनं जीवाय हानिकरं भवति।

औद्योगिकतापीय – प्रदूषणम् – कानिचन औद्योगिकप्रतिष्ठानानि एवं भवन्ति यत्र उपकरणानां शितलीकरणाय जलस्यावश्यकता भवति। परमुपयोगानन्तरम् इदं जलं महदुष्णं भवति। अपि च इदमूष्णतमं जलं साक्षात् जलस्रोतेषु मिलति। फलतः जलस्रोतानां जले तापवृध्दिः भवति। अतस्तेन जलीय-जीवानां मृत्युः भवति। अपि च जलं प्रदूषितं भवति।

खनिजतैलम् –खनिजतैलमाध्यमेन त्रिप्रकारकं जल प्रदूषणं भवति। प्रथमं जलमार्गेण खनिजतैलस्य आयातं निर्यातं वा भवति। तत्र कदाचित् दुर्घटनया जलयानेन जले तैलस्य मिश्रणं भवति। द्वितीयं पृथ्व्यामपि कदाचित् तैलं पतति। तत्तैलमपि वर्षादि विभिन्न- माध्यमेन जलस्रोतेषु मिलति। तृतीयं पृथिव्यां बहुत्र खनिजतैलस्य लघुभण्डारं वर्तते। सर्वत्र तैलनिष्काषणं सम्भवं नास्ति। तैलनिष्काषणे यत् परिमाणं व्ययाधिक्यं भवति तत्परिमाणं तैलं न प्राप्यते। फलतः सः भण्डारं तत्रैव स्थित्वा पार्श्वे स्थितानि जलस्रोतांसि प्रदूषयति।

शवप्रवाहः –अस्योदाहरणं वाराणस्यां द्रष्टुं शक्यते यत् गंगायां कश्चन शवः सम्पूर्णः प्रवहति, कश्चन अर्ध्दद्ग्धः, अपि च कश्चन दग्धः। वस्तुतः अस्माकं धार्मिकमान्यतानुसारेण शवप्रवाहः क्रियतेऽस्माभिः। तत्र दीनाः काष्ठाभावत् साक्षात् शवं प्रवाहयति, अर्ध्ददग्धं शवं प्रवाहयति तथा सक्षमाः शवदाहोपशिष्टं प्रवाहयति नद्याम्। एवं प्रकारेण जलं प्रदूषितं भवति ।

एतदतिरिक्तमपि बहूनि कारणानि सन्ति येन जलं प्रदूषितं भवति। येषां कारणानामुल्लेखः अत्र न क्रियते । यतोहि दिनानुदिनं नूतनं कारणं विकसति । सम्प्रति विचार्यते यत् कानि तत्वानि जले तिलन्ति येन जलं प्रदूषितं भवतीति ।


SHARE THIS

Author:

I am writing to express my concern over the Hindi Language. I have iven my views and thoughts about Hindi Language. Hindivyakran.com contains a large number of hindi litracy articles.

0 comments: