महासागर / सागर संस्कृत निबंध (Essay on Ocean in Sanskrit)
महासागर / सागर संस्कृत निबंध: सागरः भूमौ दृश्यमानः लवणजलेनावृत्तः ७०% भूभागः। भूमेः वातावरणस्योपरि, जलचक्र-अङ्गारचक्र-नैट्रोजन्-चक्रस्योपरि च सागरस्य प्रभावः गणनीयरीत्या भवति । विश्वस्य सागरप्रदेशः प्रमुखतया पञ्चधा विभक्तः दृश्यते। प्रदेशवैशल्यानुगुणं तेषां नामानि अवरोहणक्रमेण एवं विद्यते - पेसिफिक्-अट्लाण्टिक्-हिन्दु-अण्टार्क्टिक्-आर्क्टिक्-सागराः।
अस्मिन् भूग्रहमात्रे एव सागरः (अपारः जलराशिः) विद्यते। भूविस्तारस्य ७२% भागः लवणजलेन आवृत्तः विद्यते। अयं सागरः प्रमुखसागरत्वेन विभक्तः। भूमेः जलस्य ९७% सागरस्य जलमेव। सागरतज्ञाः वदन्ति यत् विश्वसागरस्य ५% भागमात्रम् अस्माभिः आविष्कृतः विद्यते इति । सागरस्य समग्रः विस्तारः १.३ बिलियन् क्युबिक् कि मी (३१० मिलियन् क्युबिक् मीटर्), सामान्यगभीरता ३,६८२ मीटर्स्। अत्र विद्यमानस्य जलस्य प्रमाणं सामान्यतः १,३४० मिलियन् घनकिलोमीटर्-परिमितम्। भूमेः ०.०२३% भारः अस्य विद्यते। सागरे २,३०,००० ज्ञाताः जीविनः वसन्ति, अज्ञातानां जीविनां सङ्ख्या विंशतिलक्षाधिकं स्यात् इति ऊह्यते।
स्थानम् | सागरः | विवरणम् |
---|---|---|
१ | पेसिफिक्-महासागरः | एशिया-ओशेनियाप्रदेशौ अमेरिकातः पृथक्करोति |
२ | अट्लाण्टिक्-महासागरः | अमेरिकां युरेसिया-आफ्रिकातः पृथक्करोतु |
३ | हिन्दुमहासागरः | आफ्रिका-आस्ट्रेलियाखण्डौ पृथक्करोति |
४ | दक्षिणमहासागरः | पेसिफिक्-अट्लाण्टिक्-हिन्दुमहासागराणाम् विस्तृतभागत्वेन गण्यमानः अयम् अण्टार्क्टिकां परितः दृश्यते |
५ | आर्क्टिक्-महासागरः | आर्क्टिक्-प्रदेशं व्याप्य उत्तरामेरिका-युरेशियामपि स्पृशति |