Sanskrit Essay about Onam (ओणम पर संस्कृत निबंध) तिरुवोणम् केरलीयानां प्रमुखोत्सवः। वामनावतारसंबद्घःअस्ति अयम् उत्सवः। श्रावणमासस्य अत्तं हस्तनक्षत्र
Sanskrit Essay about Onam (ओणम पर संस्कृत निबंध)
तिरुवोणम् केरलीयानां प्रमुखोत्सवः। वामनावतारसंबद्घःअस्ति अयम् उत्सवः। श्रावणमासस्य अत्तं (हस्तनक्षत्रम्) नक्षत्रदिनादारभ्य तिरुवोणनक्षत्रदिनपर्यन्तम् (श्रावणनक्षत्रम्) दशदिनानि भवति अयम् आघोषः। जनाः प्रथमदिनादारभ्य गृहे पुष्पाणि उपयुज्य अलङ्कारं कुर्वन्ति। श्रीपार्वत्याः प्रियं पुष्पं तुम्ब (Leucas aspera) तस्मिन् अलङ्कारे मुख्यमस्ति। अलङ्कारस्य मध्ये वामनमूर्ते: सङ्कल्पनार्थं ओणत्तप्पन् अपि भवति। आघोषस्य अन्तिमदिनद्वयम् इतोऽपि प्रामुख्यम् अस्ति। विशिष्टं भोजनम् अपि सिध्दं कुर्वन्ति जनाः। नूतनवस्त्राणां धारणं भवति।
केरले प्रादेशिकशौल्या आघोषे तत्र तत्र किञ्चित् भेदाः दृश्यन्ते।पूर्वं महाबली केरलराज्ये महाराजः आसीत् तस्य शासनकाले सर्वत्र ऐश्वर्यं तथा समृद्धिः च आसीत्। विष्णुः वामनावतारं स्वीकृत्य तं पातालं प्रति प्रेषितवान् तदनन्तरम् ओणदिने सः प्रजानां दर्शनार्थम् आगच्छति इत्येका कथा नवीनविद्याभ्यासकालादारभ्य प्रचारे आगता अद्यत्वे सा मिथ्या कथा एव सर्वे वदन्ति। केरले ओणं सार्वजनिकोत्सवः इति मन्यते। पुराणानां सम्यक् ज्ञानं विनायेव अधुना ओणस्य परिकल्पनां कुर्वन्ति बहवो जनाः। केचन असुरनायकस्य बलेः उत्तमगुणान् चिन्तयित्वा भगवतः विष्णोः अवतारस्य किञ्चित् निन्दाभावेनाऽपि तुलनां कुर्वन्ति! हा कष्टं खलु वक्रीकृतकथा !! नूतन- नूतनमार्गेण पुराणस्य वक्रीकरणम् अपि तत्र तत्र भवतीति सत्यमेव। मतप्रचारार्थम् अन्यमतस्थाः अपि ओणं पर्वाणः तेषां व्याख्यानं कुर्वन्ति!। व्यावसायिक-वाणिज्य दृष्ट्या ओणसमयः व्यापारीणां कृते धनार्जनार्थम् उत्तमः अवसरः अस्ति।ओणं कृषकानाम् उत्सवः अपि आसीत् यतोहि कार्षिकवृत्तेः फलप्राप्तिः अस्मिन्नेव समये भवतीति कारणतः। विद्यालयेषु दशदिनपर्यन्तं विरामकालः भवति इत्यनेन छात्राः एव सोत्साहम् अस्मिन् समये सर्वत्र भागं स्वीकुर्वन्ति। बालाः गृहतः दूरं दूरं गत्वा प्रतिदिनं पुष्पाणां संग्रहणं कृत्वा अग्रिमदिनस्य पुष्पालङ्कारार्थं सज्जतां कुर्वन्ति। कदलीपत्रे पुष्पाणि स्वीकृत्य बालाः इतस्ततः धावन्तः भवन्ति इतितु गतकालस्मरणा! ये तथा कृतवन्तः तेषां जीवने ओणं तु अतीवमनोहरोत्सवः इति सत्यमेव । आधुनिके काले दूरदर्शनस्य पुरतः उपविश्य चलनचित्रं पश्यन्ति प्रायः बालाः! यतोहि पुष्पाणि आपणं गत्वा क्रीणन्ति पोषकाः तत्र मानसिकोल्लासं तावद् न भवतीति मे अभिप्रायः। यद्यपि यत्र यत्र केरलीयाः देशविदेशेषु निवसन्ति तत्र तत्र अद्यापि ते यथाशक्तिः ओणाघोषं कर्तुं प्रयत्नं कुर्वन्ति । नवीनजीवितसाहचर्ये इतरेषु उत्सवेषु इव अस्मिन् उस्तवे अपि सर्वेषां भागस्वीकरणम् अस्तियेव। कारणं तु नास्ति अन्यत् उत्सवः प्रियाः खलु मानवाः! सर्वेभ्यः अस्य श्रावणोत्सवस्य ओणं पर्वणः शुभाशया:
COMMENTS