वेदानां महत्वं संस्कृत निबंध। Vedo ka Mahatva in Sanskrit : ‘विद ज्ञाने' इति ज्ञानार्थकाद् विद्धार्तोर्घि प्रत्यये कृते वेद इति रूपं निष्पद्यते। एवं वेदशब्दो ज्ञानार्थकः। ज्ञानराशिर्वेद इति वक्तुं शक्यते । विद सत्तायाम्, विद विचारणे, विल लानेविद वेतनापाननिवासेषु इति धातुभ्योऽपि घजि वेदरूपं निष्पद्यते। वेदा ज्ञानराशित्वात् शाश्वतस्थायिनः, जाननिधयः, मानवहितप्रापकाः, मनुजकर्तव्य-बोधका इति विविधधात्वर्थग्रहणाद् ज्ञायते।
वेदानां महत्वं संस्कृत निबंध। Vedo ka Mahatva in Sanskrit
वेदशब्दार्थः- ‘विद ज्ञाने' इति ज्ञानार्थकाद् विद्धार्तोर्घि प्रत्यये कृते वेद इति रूपं निष्पद्यते। एवं वेदशब्दो ज्ञानार्थकः। ज्ञानराशिर्वेद इति वक्तुं शक्यते । विद सत्तायाम्, विद विचारणे, विल लानेविद वेतनापाननिवासेषु इति धातुभ्योऽपि घजि वेदरूपं निष्पद्यते। वेदा ज्ञानराशित्वात् शाश्वतस्थायिनः, जाननिधयः, मानवहितप्रापकाः, मनुजकर्तव्य-बोधका इति विविधधात्वर्थग्रहणाद् ज्ञायते।
वेदानां वैशिष्यम्- वेदानुशीलनाद् ज्ञायते यद् वेदा हि विविधज्ञान-विज्ञानराशयः, संस्कृतेराधाररूपाः, कर्तव्याकर्तव्याजबोधकाः शुभाशुभनिदर्शकाः, जीवनस्योनायकाः, विश्वहितसंपादकाः, आचारसंचारकाः, सुखशान्तिसाधकाः, ज्ञानालोकप्रसारका सत्यतायाः सरणयः, कलाकलापप्रेरकाः, आशाया आश्रयाः, नैराश्यविनाशकाः, चतुर्वर्गावातिसोपानस्वरूपाक्ष सन्ति ।।
वेदानां महत्त्वविचारचिन्तायां कतिपयेऽनुयोगाः पुरतोऽवतिष्ठन्ते। कति वेदाः? किं वेदानां महत्त्वम् किं वेदानां वेदत्वम् ? किं तत्र विशिष्टं ज्ञानम् ? किं तेषां व्यावहारिकी उपयोगिता? किं वेदाध्ययनस्य जीवने उपयोगित्वम्? किं च समस्याबहुले जगति समस्या निराकरणत्वं वेदानाम्? किं च वेदानां धार्मिक राजनीतिकम् आर्थिकं भाषानिकम ऐतिहासिकं काव्यशास्त्रीयं शास्त्रीयं सामाजिकं सांस्कृतिकं च महत्त्वम्? इत्येवात्र समासतो वित्रियते प्रस्तूयते च।
वैदिक साहित्यम्- मुख्यत्वेन वेदशब्दः ऋग्यजु:सामाथर्वनामभि: प्रचलितानां चतसृणां वेदसहितानां बोधकः। एतेषामेव चतुर्णां वेदानां व्याख्यानभूता ब्राह्मणग्रन्थाः सन्ति, येषु वैदिककर्मकाण्डस्य विशदं वर्णनमस्ति। एतेषु वेदानाम् आध्यात्मिकी व्याख्याऽपि प्रस्तूयते। एतेषां परिशिष्टरूपेण आरण्यकग्रन्थाः सन्ति। एषु अध्यात्मविद्याया विवेचनं प्राप्यते। उपनिषत्सु च तस्या एवाध्यात्मविद्यायाश्चरमोत्कर्षः संलक्ष्यते। वैदिकसाहित्य-शब्देन समग्रोऽपि मन्त्र-ब्राह्मण-आरण्यक-उपनिषत्-संग्रहरूपो निधिगृहाते। अतएव मन्त्रब्राह्मणयोर्वेदनामधेयम्' इति निर्दिश्यते।
वेदानां धार्मिक महत्त्वम्- वेदा मन्वादिभिः ऋषिभिः परमप्रमाणत्वेनोपन्यस्ताः। ‘वेदोऽखिलो धर्ममूलम्' इति समुद्घोषयता मनुना समग्रस्यापि वेदनिधधर्माधाररूपेण प्रतिष्ठा विहिता। मानवस्याखिले कृत्यजातं कर्तव्याकर्तव्यं वा वेदेष विशदतया निरूप्यते। अतएव वेदा आचार-संहिता--रूपेण प्रमाणाक्रियन्ते।
यः कश्चित् कस्यचिद धमों मन्ना परिकीर्तितः ।।
स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः ॥ (मनु० 2.7)
सर्वेsपि विद्वत्तल्लजा भारतीयाः दार्शनिकाः, आचारशिक्षणप्रवणा: स्मृतिकाराः । शब्दतत्त्वमीमांसादक्षा वैयाकरणाः, अन्ये च शास्त्रकारा वेदानां परमप्रामाण्यं प्रतिपदम्। उद्घोषयन्ति। अतएव महर्षिणा पतञ्जलिना कर्तव्यत्वेन समादिश्यते यत्
ब्राह्मणेन निष्कारणो धर्मः घडो वेदोऽध्येयो शेयश्च। (महाभाष्य, आह्निक 1)
स्मृतिकारैर्न एतावतैव विम्यते, अपितु निर्दिश्यते यत् ब्राह्मणेन एकनिष्ठया वेदाध्ययनं संपाद्यम्। एतद् ब्राह्मणस्य परमं तपः। यश्च वेदाध्ययनम् अवमत्य शास्त्रान्तर कृतमतिः स जीवन्नेव सपरिवार: शूद्रत्वम् उपयाति।।
वेदमेव सदाऽभ्यस्येत् तपस्तष्यन् द्विजोत्तमः।
वेदाभ्यासो हि विप्रस्य तपः परमिहोच्यते।
योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् ।।
स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥
वेदानां सांस्कृतिक महत्त्वम्- भारतीयायाः संस्कृतमूलस्रोतोऽनुसंधीयते वेत्। तर्हि वेदा एव तन्मूलस्रोतस्त्वेनोपतिष्ठन्ति। वेदवेव प्रत्लतमा भारतीय संस्कृतिवर्णिताऽस्ति । भारतीयायाः संस्कृतेर्मूलरूपं वेदेष्वेवोपलभ्यते। वेदेष्वेव प्राक्तनभारतीयाना। जीवनदर्शनं, कार्यकलापः, आचार-विचाराः, नेतिक सामाजिक र चार मानवानां विविधकर्तव्यादिनिर्धारण तत्रैजॉपलभ्यते। उक्त च मनुना-
सर्वेषां तु स नामानि कर्माणि च पृथक् पृथक् ।।
वेदशब्दभ्य एवादी पृथक् संस्थाश्च निर्मम ।।
लोकमान्य तिलकमहाभागास्तु वेदेषु प्रामाण्यबुद्धिमेव आर्यत्वस्य लक्षणं व्यादिशन्ति- ‘प्रामाण्यबुद्धिर्वेदेषु', वेदेष्वेवार्याणां संस्कृतेर्विशुद्धं रूपं विस्तरशः प्राप्यते। आर्याणां यज्ञेषु दृढविश्वासः, एकेश्वरवादेन सहैव बहुदेवतावादस्यापि स्वीकरणम् अनासक्तभावनया कर्मविधिः, ईश्वरस्य सर्वव्यापकत्वम्, ज्ञानकर्मणोः समन्वय, भौतिकवादं प्रत्यनास्था, पुनर्जन्मनि विश्वासः, मोक्षस्य जीवनोद्देश्यत्वं चेत्यादितथ्यानि वेदेष्वेव प्राप्यन्ते।
विश्वसंस्कृतेरैतिह्य गवेषितं चेत् तर्हि वेदा एव सर्वप्रमुखत्वेन दृष्टिपथम् अवतरन्ति। अस्मिन् संसारे संस्कृतेः सभ्यतायाश्च कथमिव विकासोऽभूदित्यर्थ वेदानुशीलनम् अनिवार्यम् आपद्यते। तत एव क्रमिकविकासस्य प्रक्रिया प्राप्यते। अतएव यजुर्वेदं प्राप्यते-‘सा प्रथमा संस्कृतिर्विश्ववारा' वैदिक संस्कृति प्रथमा संस्कृतिरासीत्।
शास्त्रीय महत्वम्- वेदानां शास्त्रीय महत्त्वं सर्वतोमुख्यं वर्तते। ‘सर्वज्ञानमयो हि सः' इति वदता मनुना वेदानां सर्वविधज्ञाननिधानत्वम् उरीकृतम्। यदि विचारदृशा समीक्ष्यते तर्हि वेदेषु बीजरूपेण दार्शनिकाः सिद्धान्ताः, राजनीतिः, समाजशास्त्रम्, अध्यात्मम्, मनोविज्ञानम्, आयुर्वेदः, गणितम्, अर्थशास्त्रम्, नाट्यशास्त्रम्, काव्यशास्त्रम्, कामशास्त्रम्, अन्याश्च विविधाः कलास्तत्र तत्र वर्य्,न्ते। वैदिक दर्शनम् अध्यात्मतत्त्वं चोपादाय उपनिषदो विविधानि दर्शनानि च प्रवृत्तानि। तथ्यमेतद् निदर्शनरूपेण नाट्यशास्त्रकृतो भरतमुनेविवेचनेन विशदीभवति।
जग्राह पाठयम् ऋग्वेदात, सामभ्यो गीतमेव च।
यजुर्वेदादभिनयान, रसानाथर्वणादपि ॥
नैतिक महत्वम्- वेदानाम् आचारशिक्षा-दृष्ट्या, नैतिक-दर्शनरूपेण चातीव महत्त्वं वर्तते। कर्तव्योद्बोधनरूपेण तेषां परमं प्रामाण्यं वर्तते। किं कर्म, किम् अकर्मेति चिन्तायां वेदा एतादर्शरूपेण प्रस्तूयन्ते। अतएव मनुनोच्यते
वेदः स्मृतिः सदाचारः, स्वस्य च प्रियमात्मनः।
एतच्चतुर्विधं प्राहः, साक्षात् धर्मस्य लक्षणम् ।।
श्रुतिस्मृत्युदितं धर्मम्, अनुतिष्ठन् हि मानवः ।
इहकीर्तिमवाप्नोति, प्रेत्य चानुत्तमं सुखम् ॥
धर्मचिन्तायां कर्तव्यविचारणे च वेदाः परमप्रमाणभूताः सन्ति।
धर्म जिज्ञासमानानां, प्रमाणं परमं श्रुतिः ।। मनु०
सामाजिक महत्त्वम्- समाजशास्त्रीयदृष्ट्याऽपि वेदा अत्यन्तं महत्त्वपूर्णाः सन्ति। समाजस्य विकासस्य, सभ्यतायाः समुन्नतेः, वर्णानां विविधवृत्तिपराणां नराणां च कर्म-कलापस्य, सामाजिक्या व्यवस्थायाश्च महत्त्वपूर्णम् इतिवृत्तं वेदेषुपलभ्यते। प्राक्तनस्य समाजस्य कि स्वरूपमासीदित्यपि तत एवाप्तुं पार्यते ।।
आर्थिक महत्त्वम्-अर्थशास्त्रदृष्ट्याऽपि वेदानां महत्त्वम् अस्ति। वेदेषु प्रनाया अर्थव्यवस्थायाः स्वरूपं फुटे समवाप्यते। आदान-प्रदानस्य, क्रय-विक्रयस्य, व्यापारस्य वाणिज्यस्य च, गवादिपशूनाम् कृषि-धान्यादीनां च का व्यवस्थाऽवस्था चासोदित्यपि तत्र प्राप्तुं शक्यते । आदान-प्रदानुस्य महत्त्वं यजुर्वेदे वष्यते ।
देहि मे ददामि ते, नि मे धेहि नि ते दधे ।
निहारं च हरासि में, निहारे नि हराणि ते ॥
राजनीतिकं महत्त्वम्- राजनीतिशास्त्रदृष्ट्यापि वेदानां महत्त्वं नावमूल्ययितुं शक्यते। वेदेषु राज्ञः प्रजायाश्च कर्माणि, राजतन्त्रस्य विविध स्वरूपम्, राज्ञो वरणम्, सभायाः समितेश्च संस्थापना, मन्त्रिपरिषदो मनोनयनम्, राजतन्त्रीया प्रजातन्त्रीया च शासनव्यवस्था, शत्रु-संहारः, सामदण्डादिविधीनां प्रयोगः समुपलभ्यन्ते। वेदेषु राज्ञो निर्वाचनस्य, प्रजातन्त्रीयाया राज्यव्यवस्थाबारबाषि समुल्लेखा विविध स्थलेषु उपलभ्यते। तद्यथा-
विशत्वा सब वाज्छन्तु०
त्या दिशो वृणतां राज्याया।
महते जानराज्याय० ।
भाषावैज्ञानिक महत्त्वम्- तुलनात्मकभाषाविज्ञानस्याध्ययनास वेदानां अतीव महत्वं विद्यते। वेदा विश्वस्य प्राचीनतमाः, समपुलब्ध ग्रन्थाः। तत्रापि ऋगवेदस्य प्राचीनतमत्वेन भाषायाः प्राचीनतम रूपं प्राप्यते। पारसीकधर्मग्रन्थ-जेन्दावेस्ता। (छन्दोवस्था)-ग्रन्थेन सह तुलनायाम् अवेस्ता-भाषया सह वैदिकभाषाया घनिष्ठः सम्बन्धो दृश्यते। ऋग्वेदीया मन्त्रा अवेस्ताभाषायाम् अवेस्ता-मन्त्राच वैदिकमन्वेषु च परिवर्तयितुं शक्यन्ते। तुलनात्मकभाषाविज्ञानस्य दृष्ट्या विशेषतो वेदानाम् अध्ययनं पाश्चात्त्यदेशेषु प्रवृत्तम्। वैदिक-संस्कृतभाषाया लौकिक-संस्कृतस्य ततश्च भाषाणाम् अन्यासां जनिक्रमस्यावबोधाय वेदानाम् अध्ययनम् अनिवार्यम्।
ऐतिहासिक महत्वम् - वेदेषु कतिपये ऐतिहावलोभका संदर्भा अपि तत्र तत्रोपलभ्यन्ते। तानाश्रित्य संदर्भान् विहिः प्राचीनतमम् ऐतिह्यं प्रस्तूयते। तत्र गंगादीनां नदीनाम्, दाशराजयुद्धस्य, पंच जनानाम्, विविधानां वर्णानां वृत्तीनां च उल्लेखः प्राप्यते।
काव्यशास्त्रीय साहित्यिकं च महत्वं - काव्यशास्त्रीय दृष्ट्यापि वेदानां महत्त्व प्रशस्वम्। तत्र अनुप्रास-यमक कदमल- रूपकादीनाम् अलंकाराणां प्रयोगोनेकत्र प्राप्यते। उष:सूक्ते उषसो वर्णने कवित्वस्य स्फट दर्शनं जायते। सुन्दरी युवतिः स्ववस्त्राणात उषाः स्वीयं सौन्दर्य विस्तारयति। सकलेऽपि भुवने तस्याः सौन्दर्यम् अहलादकारि व्याप्नोति।
अव स्यूमेव चिन्वती मघोन्युषा याति स्वसरस्य पत्नी।
स्वर्जनन्ती सुभगा सुदंसा आन्ताद् दिवः पप्रथ आ पृथिव्याः।।
एवं वेदाध्ययनं जीवनं पावयति, चिन्ताकुल जगत चिन्तायास्त्रायत, लोकानां विविधाः समस्या निवारयति, जीवनम् उन्नमयति, सद्भावांश्च प्रेरयति, इति सर्वथा वदना महत्र सिध्यति।
वेदानां महत्वम् अङ्गीकृत्यैव भारतीयैः पाश्चात्त्यैश्च विपश्चद्भिः वेदाध्ययने स्वजीवनं यापितम्। तद् यथा-सायणाचार्य-वेंकटमाधव-महर्षिहदयानन्द-मधुसूदन-ओझा-मोतीलाल शर्मा-वासुदेवशरण अग्रवाल-मैक्समूलर-रुडोल्फ रोठ-विल्सन-ग्रिफिथ-मैकडॉनल-प्रभृतयो विद्वतजाः।
COMMENTS