Essay on Delhi in Sanskrit - दिल्ली पर संस्कृत निबंध
'दिल्ली' नगरं अस्माकं देशस्य राजधानी अस्ति। इदं विशालं नगरं यमुनानद्यास्तटे वसति। अस्य द्वौ भागौ स्तः। एकस्य नाम प्राचीनदिल्ली, अपरस्य नाम नवीनदिल्ली इति विख्यातं अस्ति। अत्र हिन्दवः, मुसलमानः, ईसामसीयाः इत्यादयः बहुजातीयाः भिन्नधर्मावलम्बिनः जनाः निवसन्ति। राष्ट्रस्य सर्वोच्चशासकः राष्ट्रपति महोदयः अत्रैव निवसति। अस्माकं देशस्य केन्द्रीयव्यवस्थापिका सभा अस्मिन्नेव नगरे तिष्ठति, या समग्रदेशस्य शासनस्य रक्षादिकस्य च व्यवस्थां करोति। अत्र नगरे बहूनि दर्शनीयानि स्थानानि सन्ति। येषु पाण्डवानां दुर्गं,जामा मस्जिदं, क़ुतुबमीनारं च अति प्रसिद्धानी सन्ति। पाण्डवानां समयेsपि भारतवर्षस्य इदमेव नगरं राजधानी अभवत्। तदा अस्य नगरस्य नाम "इंद्र प्रस्थम्" आसीत्।
0 comments: