Sunday, 11 September 2022

मुंबई नगर पर संस्कृत निबंध (Essay on Mumbai in Sanskrit)

मुंबई नगर पर संस्कृत निबंध (Essay on Mumbai in Sanskrit)

मुंबई नगर पर संस्कृत निबंध: मुम्बई महाराष्ट्रराज्यस्य राजधानी अस्ति। एतन्नगरं भारतदेशस्य विशालं, प्रगतं च नगरम्। इदं मुम्बई महानगरं गगनस्पर्शिभवनैः आभारतम् एव अद्वितीयम् अस्ति। विश्वे २५ बृहन्नगरेषु अन्यतममिदम् । भारतदेशे वर्तमानेषु नगरेषु द्वितीयं बृहन्नगरम्। 'बोलिवुड्' नाम्ना प्रसिद्धः हिन्दी-चलच्चित्रोद्यमः इतः एव प्रवर्तते। मुम्बादेव्याः देवालयः अत्र अस्ति। अतः नगरस्य 'मुम्बापुरी' इति नाम आसीत् इति कथ्यते। आङ्गलानां प्रशासनकाले 'बॉम्बे' नाम्ना प्रख्यातम् अभवत्। लघु-’धाकटा’ कुलाबा, बृहत्-'मोठा' कुलाबा, मुम्बई, माझगाव, परळ, वरळी, माहीम इत्येतानां द्वीपानां एकत्रीकरणेन मुम्बईनगरं निर्मापितम्।

मुम्बई नगरस्य विस्तार: ६०३ कि.मी. मित: अस्ति। नगरस्य पश्चिम-दक्षिण-आग्नेय-भागेषु सागरतट: अस्ति, ईशान्यदिशि ठाणेमण्डलमस्ति। इदानीमपि द्वीप-योजनस्य चिह्नानि दृश्यन्ते । मुम्बईनगरं सागरतटे अस्ति अत: साधारणतया उष्णम्, आर्द्रं च वातावरणम् अत्र भवति। 

मुम्बईनगरं पश्चिमसागरतीरे अस्ति। मुम्बई न केवलं महाराष्ट्रराज्यस्य राजधानी, अपि तु भारतदेशस्य वित्तराजधानी, मनोरञ्जनराजधानी च वर्तते। 'भारतीय रिजर्व बैङ्क', मुम्बई ’शेअर बाजार’, राष्ट्रीय शेअर बाजार इत्येतादृश्यः नैकाः महत्वपूर्णाः संस्थाः अत्र सन्ति। मुम्बईनगरं हिन्दीभाषायां-चलच्चित्रनिर्माणस्यापि केन्द्रम्। सञ्जय गान्धी राष्ट्रियोद्यानं, लवणक्षेत्राणि इत्यादीनि प्राकृतिकस्थलानि नगरसमीपे सन्ति। एवं समृद्धमिदम् नगरम्।


SHARE THIS

Author:

I am writing to express my concern over the Hindi Language. I have iven my views and thoughts about Hindi Language. Hindivyakran.com contains a large number of hindi litracy articles.

0 comments: