माता सीता पर संस्कृत निबंध (Essay on Sita in Sanskrit) सीतायाः पात्रं रामायणपात्रप्रपञ्चे विशिष्टं स्थानं भजते। अयोनिजा सीता श्रीरामचन्द्रस्य धर्मपत्न
माता सीता पर संस्कृत निबंध (Essay on Sita in Sanskrit)
माता सीता पर संस्कृत निबंध: सीतायाः पात्रं रामायणपात्रप्रपञ्चे विशिष्टं स्थानं भजते। अयोनिजा सीता श्रीरामचन्द्रस्य धर्मपत्नी। जनकमहाराजस्य पुत्री। कुशलवयोः माता। मिथिलायाः राजा जनकः सन्तानप्राप्त्यर्थं यज्ञमकरोत्। एकवारं क्षेत्रकर्षणसमये एकः शिशुः प्राप्तः। जनकमहाराजः तं शिशुं गृहं नीत्वा पालितवान्। तस्याः पुत्र्याः सीता इति नामकरणं कृतम्। जानकी, मैथिली इत्यादीनि तस्याः नामान्तराणि।
जनकमहाराजेन सीतायाः स्वयंवरः आयोजितः। शिवधनुषः ज्याबन्धनमेव स्वयंवरस्य पन्थाह्वानम् आसीत्। रावणादयः वीराः पराजिताः अभूवन्। श्रीरामः जित्वा सीतां परिणीतवान्
सीतायाः विवाहानन्तरं दशरथः यदा श्रीरामस्य राज्याभिषेकं कर्तुम् उद्युक्तः। तदा मन्थरायाः कौटिल्यात् कैकेयी रामस्य वनगमनार्थम् आग्रहं कृतवती। तदा पितृवाक्यं परिपालयितुं रामः वनं गन्तुमुद्युक्तः। तदा सीतापि रामेण सह वनं प्रति गन्तुं सिद्धा। परं रामः निराकृतवान्। तथापि राम एव परमं दैवतम् इति मत्वा सीता रामेण सह वनं गन्तुम् आग्रहं कृतवती। रामः अङ्गीकृतवान्। सीता रामेण सह वनं गतवती। कष्टमपि सुखं मत्वा रामेण सह वनवासमकरोत्।
वनवाससन्दर्भे पञ्चवट्यां रामलक्ष्मणसीतादयः कुटीरे उषितवन्तौ। तदा रावणस्यानुजा शूर्पणखा प्रच्छन्नवेषेण युवतीवेषं धृत्वा रामस्य सकाशमागत्य तं परिणेतुं वाञ्छति। परं मर्यादापुरुषोत्तमः रामः तामवगत्य तस्याः नासाच्छेदमकरोत्। सा प्रकरणमेनम् अग्रजस्य रावणस्य सकाशे निवेदयति। क्रुद्धः रावणः प्रतीकारं साधयितुं चिन्तितवान्। मातुलस्य मारीचस्य साहाय्यं च प्राप्तवान् । मारीचः सुवर्णहरिणरूपं धृत्वा कुटीरप्रान्ते अटन् आसीत्। हेममृगं दृष्ट्वा सीता तं प्राप्तुम् इष्टवती। रामस्य समीपे तं मृगम् आनेतुं सूचयति। परन्तु रामः तस्य मृगस्य कापट्यं ज्ञात्वा सीतां वारयति। परं सीता हठेन तं मृगम् आनेतुं वदति ।सीतायाः आग्रहं सोढुम् अशक्तः रामः कुटिरे सीतायाः रक्षणार्थं लक्ष्मणं नियोज्य तं मृगमनुसृत्य गतवान्। किञ्चित्समयानन्तरं 'हा लक्ष्मण! हा सीते!'इति चीत्कारध्वनिः श्रूयते। तदा भीता सीता रामस्यैव ध्वनिरयम् इति मत्वा तस्य रक्षणार्थं लक्ष्मणं गन्तुं सूचयति। किन्तु इदं कापट्यम् इति लक्ष्मणः सीतायै कथयति। तदा लक्ष्मणः सीतायाम् अनुरक्तः सन् इत्थं कथयतीति मत्वा सीता तं भर्त्सयति। तदा अगतिकगत्या लक्ष्मणः सीतायाः रक्षणार्थं कुटीरस्य पुरतः रेखाः विरचय्य तदतिरिच्य बहिः मा आगच्छतु इति उक्त्वा ध्वनिमनुसृत्य गतवान्। तदा प्रच्छन्नवेषेण सन्यासीरूपं धृत्वा भिक्षाटनं कुर्वन् रावणः कुटीरस्य समीपमागतवान्। सीता भिक्षां दातुं कुटीरात् बहिरागता। तदा कापट्येन रावणः सीताम् अपहृत्य पुष्पकविमाने लङ्कां प्रति नीत्वा अशोकवने स्थापितवान्।
रावणेन सीतायाः अपहरणानन्तरमपि अशोकवने सीता रामध्याने एव मग्ना आसीत्। रावणः बहुवारं सीतायाः सकाशं गच्छति चेदपि सीता तस्य मुखमपि न पश्यति। रावणवधानन्तरं अग्निप्रवेशेन स्वस्याः पातिव्रत्यं लोकमुखाय दर्शयति।
अहल्या द्रौपदी सीता तारा मण्डोदरी तथा।
पञ्चकं ना स्मरेन्नित्यं महापातकनाशनम् ।।
इत्यस्मिन् श्लोके पञ्च पतिव्रताः उक्ताः। तासु सीतापि अन्यतमा।
COMMENTS