Saturday, 9 March 2019

संस्कृत में वृक्ष की आत्मकथा। Vriksh ki Atmakatha in Sanskrit

संस्कृत में वृक्ष की आत्मकथा। Vriksh ki Atmakatha in Sanskrit

Vriksh ki Atmakatha
अहम् एकः वृक्ष: अस्मि। सर्वे कथयन्ति यत् वृक्षा: परोपकारिणः सन्ति। सत्यमेव वदन्ति ते। अस्माकं प्रत्येकम् अङ्गं, परेषाम् उपकाराय अस्ति। किन्तु जनाः अस्माकं उपकारं न स्मरन्ति। ते स्वार्थाय अस्माकं छिन्दनं कुर्वन्ति। गतदिने एव एक: नरः मम शरीरं काष्ठाय अच्छिनत्। छुरिकाप्रहारेण मम शरीरे अनेके व्रणा: जाता:। मम पीड़ा अकथनीया खलु। सर्वाणि काष्ठानि एकत्रीकृत्यः सः निर्गतः। अहं तु काष्ठविहीनः जातः। मम काष्ठस्य उपयोग: इन्यनाय भवननिर्माणाय अपि भवति। किन्तु नर: विस्मरति यत् खगाः कीट पतङ्गा मम आश्रिताः सन्ति। मां छित्वा ते कुत्र गच्छन्ति? पन्थान: अपि छायाहीनाः भविष्यन्ति। नर: नरस्य शत्रुः एव। एकः काष्ठाय मां छित्वा मम अंङ्गानि नाशयन्ति, ततः आतपेन श्रान्तः अन्यः नरः कुत्रः गमिष्यति? 'पर्यावरणरक्षणार्थं वृक्षारोपणीयाः' इति वाक्यानि केवलं पुस्तकस्थानि। ‘वृक्षो रक्षति रक्षितः' एतदवश्यं स्मरणीय मनुजै:।

SHARE THIS

Author:

I am writing to express my concern over the Hindi Language. I have iven my views and thoughts about Hindi Language. Hindivyakran.com contains a large number of hindi litracy articles.

0 comments: