रुप्यकस्य आत्मकथा - Rupaye ki Atmakatha in Sanskrit
मम नाम रुप्यकम्। सर्वे जानन्ति यत्
मम द्वे रूपे स्तः धातुरूपं, कर्गलरूपं च। मम
जन्म मुद्रणयन्त्रालये भवति। तत्पश्चात् रिजर्व बैंक गच्छामि। रिजर्व बैंकात्
अन्येषु बैंकेषु आगच्छामि। मां लब्ध्वा सर्वे आत्मानं धन्यं मन्यन्ते। मां विना
मनुजस्य जीवनं व्यर्थम्। अहम् अतिशक्तिमान् उपयोगी च अस्मि। मम प्राप्त्यर्थं जनाः
सततं यतन्ते। मम सहायता विना किमपि कर्म न भवति। अतः अस्मिन् संसारे मम एव
राज्यमस्ति। मम रक्षायै जनाः अनेके उपायाः कुर्वन्ति। भाण्डागारेषु निधाय मां
रक्षन्ति। यस्य पाश्र्वे अहं नास्ति, तस्य सम्मानं नास्ति। बालाः, युवकाः, वृद्धाः सर्वेऽपि माम् इच्छन्ति।
चौरा: मां लब्धुं किमपि साहसं कुर्वन्ति। वणिज: मां लोहानिर्मितासु पेटिकासु निधाय
रक्षन्ति। शिक्षाप्राप्तिरपि मां विना असंभवा वर्तते। सर्वे जनाः मम महत्वं
जानन्ति यतः ते मद्विना किञ्चित क्रेतुं, किमपि कर्तुं न शक्नुवन्ति। रुप्यकोऽहं, सर्वश्रेष्ठः अस्मि।
0 comments: