कबड्डी पर संस्कृत निबंध (Essay on Kabaddi in Sanskrit)
कबड्डी पर संस्कृत निबंध: कबड्डी क्रीडा (Kabaddi Sport) भारतस्य राष्ट्रियक्रीडयोः अन्यतरा क्रीडा। दक्षिण-एष्याखण्डप्रदेशे कबड्डी क्रीडा मल्लक्रीडासु अन्तर्भवति इति मन्यते। १९३६ तमे वर्षे जर्मनीदेशस्य बर्लिन्-नगरे ओलम्पिक्-क्रीडोत्सवे प्रथमवारं कबड्डिक्रीडायाः प्रदर्शनम् अभवत्। अस्य प्रदर्शनं महाराष्ट्रराज्यस्य अमरावति प्रदेशस्य हनुमान् व्यायाम-प्रसारकमण्डलस्य सदस्याः प्रदर्शितवन्तः। १९३८ तमे वर्षे भारतीय ओलम्पिक्-क्रीडोत्सवे कोलकतानगरे कबड्डिक्रीडा प्रथमवारं क्रीडारूपेण आरब्धा। १९५० तमे वर्षे अखिलभारतीय कबड्डि फेडरेशन्इति संस्था आरब्धा। अनया संस्थया अस्याः क्रीडायाः आदर्शनियमाः निर्दिष्टाः। १९७३ तमे वर्षे अमेचर् कबड्डि फेडारेषन् आफ् इण्डिया संस्थायाः स्थापना जाता।
१९५५ तमे वर्षे अमेचर् कबड्डि फेडारेषन् आफ् इण्डिया संस्थायाः स्थापनानन्तरं प्रथमवारं राष्ट्रियस्तरे पुरुषाणां स्पर्धा चेन्नैनगरे आयोजिता आसीत्। एवं महिलानां स्पर्धा कोलकतानगरे आयोजिता आसीत्। अमेचर् कबड्डि फेडारेषन् आफ् इण्डिया संस्था कबड्डिक्रीडायाः नियमान् परिणतरूपं निर्मितम्। जनार्दन सिंह गेह्लत् वर्यस्य आध्यक्षे एष्यन् कबड्डि फेडारेशन् इति संस्था स्थापिता। १९७९ तमे वर्षे जपान्-देशे कबड्डिक्रीडायाः परिचयः अभवत् । तथा च जनप्रियता अपि प्राप्ता। अस्याः क्रीडायाः परिचयं कारयितुम् अमेचर् कबड्डि फेडारेषन् आफ् इण्डिया संस्थया प्रवाचकः सुन्दररामवर्यः जपान्देशाय प्रेषितः आसीत्।