सूर्य पर संस्कृत निबंध। Essay on Sun in Sanskrit
सूर्यः एकः तेजोमयः पदार्थः अस्ति।
अयं गोलाकारः भवति।
सूर्यः पृथिव्याः
अपि महान अस्ति परं दर्शने लघुः प्रतिभाति।
सूर्यः प्रातःकाले पूर्वदिशायाम्
उदेति।
अयं सायंकाले पश्चिमदिशायाम् अस्तं गच्छति।
एवम प्रतिदिनं सूर्यः उदेति प्रतिदिनं च अस्तं
गच्छति।
सूर्यः महान् उपकारी पदार्थः अस्ति।
यदा सूर्यः उदेति तदा संसारस्य
अन्धकारः नश्यति।
प्रभातं जायते. सर्वे प्राणिनः जाग्रति।
सर्वे स्व-स्व कर्मणि
संलग्ना भवन्ति।
सूर्येण एव ऋतुपरिवर्तनं भवति।
सर्वे पदार्थाः सूर्यस्य किरणैः
जीवनं गृहन्ति।
पोषणं प्राप्नुवन्ति वृद्धि च गच्छन्ति।
0 comments: