सत्संगति पर संस्कृत निबंध। Satsangati Essay in Sanskrit
सतां संगतिः सत्संगतिः कथ्यते।
अस्मिन् संसारे यथा सज्जनाः तथा दुर्जनाः अपि सन्ति। मानव संसर्गस्यापि विशेष प्रभावः भवति।
सत्संगेन मनुष्येषु बहवः गुणाः उद्भवन्ति।
सत्संगेन मनुष्यः विवेकवान् श्रद्धावान् शीलवान् परोपकारी च भवति। दुर्जनानां संगकरणेन तु दुर्गुणाः एव प्रादुर्भवन्ति।
सत्यमेव मानवजीवने सत्संगः उन्नतेः सोपानमस्ति।
सज्जनानां संगत्या दुर्जनः अपि सज्जनः भवति ।
अतः सर्वदा सत्पुरुषाणाम् एव संगतिः कर्तव्या।
शास्त्रस्य तु अयं निर्देशः अस्ति यत् विद्यालंकृतः अपि दुर्जनः परिहर्तव्यः।