Sunday, 14 October 2018

रामायण संस्कृत निबंध - रम्या रामायणी कथा

रामायण संस्कृत निबंध - रम्या रामायणी कथा

ramayan sanskrit essay
वाल्मीकरादिकवित्वम्- इह सुविपुले वाङ्मये महाकवेर्वाल्मीकेनम वियति तरणिरिव विद्योततेतमाम्। कविरयं वैदिकवाङ्मयानन्तरं सरसलौकिककाव्योपज्ञो रसभावनिष्णातो धर्मार्थकाममोक्षात्मक-चतुर्वर्गोपदेष्टा जीवनोन्नायक आदर्शसंस्थापको धर्मकामः मृदुलसरसपदपरिपूतो माधुर्य-मृद्धीका-रसमनोहर: प्रसादाच्छच्छायासमलंकृतः कस्य न सचेतसः चेतः आह्लादयति। वाल्मीकिपूर्ववर्ति समग्रमपि वाङ्मयं धर्मप्रवणत्वाद् धार्मिकम् आध्यात्मिक चाभवत्। वाल्मीकिरेव तादृशः प्रगतिशीलो लोकभावाभिज्ञः सरसभावानुविद्धो मानव-मनोविज्ञान-विदग्धः कविरासीद् यो रामचरितम् आश्रित्य लौकिकभावमयं रस-भाव-भाषालंकारालंकृतं सर्वजनग्राह्य महाकाव्यं प्रणिनाय। अतएवायम्'आदिकविः' इत्युपाधिना विभूष्यते। रामायणेऽप्येतत् तथ्यं कविना उल्लिख्यते-
आदिकाव्यमिदं चार्ष पुरा वाल्मीकिना कृतम्।
(रामायण का महत्व निबंध पढने के लिए नीचे स्क्रॉल करें। )
उत्तररामचरितेऽप्येतत् तथ्यं प्रतिपाद्यते।
ऋषे, आद्यः कविरसि। आम्नायादन्यत्र नूतनश्छन्दसामवतारः।
रामायणस्याविर्भावः– पुण्यसलिलायास्तमसायास्तटे क्रौञ्चवधमवलोक्य तस्य महाकवेः सहसा कारुण्यपूर्णा तेजोमयी वाक् प्रास्फुरत्-
मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः । 
यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम् ।
तत्कालादारभ्य भारतीयवाङ्मये लौकिकभावोपेता रामकथामूला रामायणसरित् प्रसृता। एतदेवानुसृत्य महाकविः कालिदासः सीतापरित्यागप्रसङ्गे अवोचत-
निषादविधाण्डजदर्शनोत्थः, श्लोकत्वमापद्यत यस्य शोकः।  
ध्वन्यालोककृद् आनन्दवर्धनाचार्योऽपि वाल्मीकिमेवं स्तौति।
काव्यस्यात्मा स एवार्थस्तथा चादिकवेः पुरा ।
क्रौञ्चद्वन्द्ववियोगोत्थः, शोकः श्लोकत्वमागतः ॥  
रामायणस्य महत्त्वम्- महाकाव्यमिदं रामायणं विशिष्टेनोदात्तत्वेन, भाषाया माधुर्योज:प्रसादगुण-समन्वितत्वेन, रचनाशैल्याः प्राञ्जलतया, भावानां मनोहारिण्या विवृत्या, सर्वेषां रसानां यथास्थानम् उपन्यासात्, भारतीयायाः संस्कृतेर्विशदं विवरणात्, तात्कालिकसभ्यतायाः सुस्पष्टचित्रणेन, आचार-संहितायाः संकलनेन, नीतिशिक्षायाः संग्रहेण, आयुर्वेद-धनुर्वेद-गान्धर्ववेदादीनां यथायथम् उपयोगात्, गाम्भीर्येण, अर्थगौरवेण, ललितपदपद्धत्या, मार्मिकभावाभिव्यञ्जनेन, अलंकाराणां सुनियोजनेन, छन्दसां संगीतात्मकत्वेन च विशालेऽस्मिन् काव्याकाशे चकास्तितमास्। अतएव भूयोभूयो महाकाव्यमिदं संस्तूयते प्रशस्यते अभिवन्द्यते च विद्वद्धौरेयैर्विदग्धैः।

अनर्घराघवे कविर्मुरारिः- अहो, सकलकविसार्थ-साधारणी खल्वियं वाल्मीकीया सुभाषितनीवी (प्रस्तावना) इति वाल्मीकि प्रशंसति। श्रीभोजराजो रामायणचम्पूग्रन्थे तं। मधुररचनाप्रचारचतुरं कवीनां मार्गदर्शकं चेति मन्यते-
मधुमयभणितीनां मार्गदर्शी महर्षिः ॥
महाकाव्यमिदं परवर्तिनां काव्यानां नाटकानां चोपजीव्यत्वेन संस्तूयते। वाल्मीकेर्मतं यद् रामचरितम् अनाश्रित्य न काव्यानां यशोभाक्त्वं प्रसिध्यति। उक्तं च रामायणे-
न हान्योऽर्हति काव्यान, यशोभाग् राघवाद् ऋते। 
रामायणस्योपजीव्यत्वम्- महाकाव्यमेतदाश्रित्य प्रवृत्तानि कानिचित् काव्यानि नाटकानि च दिङ्मात्रमिह उदाह्यिन्ते। 
(1) भासकृतम्-प्रतिमानाटकम्, (2) कालिदासकृतम्-रघुवंशमहाकाव्यम्, (3) दिङ्नागकृता-कुन्दमाला, (4) भट्टिकृतम्-भट्टिकाव्यम्, (5) भवभूतिकृतम्महावीरचरितम्, उत्तररामचरितं च, (6) मुरारिकृत:-अनर्घराघवः, (7) क्षेमेन्द्रकृतारामायणमञ्जरी (8) भोजराजकृत:-रामायणचम्पू:।
रामायणास्य लोकप्रियता- रामायणस्य तादृशी लोकप्रियता यथा न केवलमेतद् विदुषामेव विभूषणम्, अपि तु सामान्यरूपेण सर्वजनानां धनिनां निर्धनानाम्, विदग्धानाम्-अज्ञानाम्, पुरुषाणां-स्त्रीणाम्, आबालवृद्धं कण्ठाभरणताम् आपद्यते। आचार-संहितारूपेणेदं सर्वत्र आद्रियते, भक्तानां भवनेषु च प्रतिदिनं पारायणीक्रियते। अतः सत्यमुच्यते भगवता वाल्मीकिना यद्-
यावत् स्थास्यन्ति गिरयः, सरितश्च महीतले ।। 
तावद् रामायणकथा, लोकेषु प्रचरिष्यति ॥
रामायणमेतद् नवरसरुचिरा कृतिः। अत्र यथास्थानं सर्वेषामपि रसानाम् अभिव्यक्तिरवलोक्यते। तत्रापि विप्रलम्भश्रृंगारस्य करुणरसस्य चाभिव्यक्तौ चरमोत्कर्षत्वं लक्ष्यते। उक्तं च- 
हास्य-शृङ्गार-कारुण्य-रौद्र-वीर-भयानकैः।
बीभत्सादभुत-संयुक्तं, काव्यमेतदगायताम् ॥
वाल्मीकिः काव्यकानने राम-रामेति मधुरं कूजन् कलरवरुचिर: कोकिल इति। संस्मर्यते सूरिभिः-
कूजन्तं रामरामेति, मधुरं मधुराक्षरम् । 
आरुह्य कविताशाखां, वन्दे बाल्मीकि-कोकिलम् ॥
रामायणस्य महत्त्वं बृहद्धर्मपुराण-स्कन्दपुराणादिषु जेगीयते। तद्यथा-
पठ रामायणं व्यास, काव्यबीजं सनातनम् । 
यत्र रामचरितं स्यात्, तदहं तत्र शक्तिमान् ॥ 
रामायणं नाम परं तु काव्यं, पुण्यप्रदं वै शृणुत द्विजेन्द्राः।। 
यस्मिन् श्रुते जन्मजरादिनाशो, भवत्यदोषः स नरोऽच्युतः स्यात् ।।
रामायणस्य विषयाः-रामायणे क्वचिद् दर्शनानाम्, क्वचिद् आगमानाम्, क्वचिद् उपनिषदाम्, क्वचित् स्मृतीनाम्, क्वचिन्नीतिशास्त्रस्य, क्वचित् विज्ञानस्य, क्वचिन्मनोविज्ञानस्य, क्वचिद् आयुर्वेद-धनुर्वेद-ज्योतिष-मनोविज्ञान-तन्त्रादीनां सार: तत्सम्बद्धा उपयोगिनो विषयाश्च समुपस्थाप्यन्ते। दिमात्रमिह केचन श्लोका उदाह्रियन्ते:-
यस्मिस्तु सर्वे स्युरसन्निविष्टा, धर्मो यतः स्यात् तदपक़मेत।
द्वेष्यो भवत्यर्थपरो हि लोके, कामात्मता खल्वपि न प्रशस्ता।
कुलीनमकुलीनं वा, वीर पुरुषमानिनम् । 
चारित्रमेव व्याख्याति, शुचि वा यदि वाऽशुचिम् ॥ 
सत्यमेवेश्वरो लोके, सत्ये धर्मः सदाश्रितः ।
सत्यमूलानि सर्वाणि, सत्यान्नास्ति परं पदम् ॥ 
अनिर्वेदः श्रियो मूलमनिर्वेदः परं सुखम् । 
अनिर्वेदो हि सततं, सर्वार्थेषु प्रवर्तकः ॥
नाराजके जनपदे, धनवन्तः सुरक्षिताः । 
शेरते विवृतद्वाराः, कृषिगोरक्ष-जीविनः ।।
अतएवेयं रामायणी गङ्गा भुवनत्रयपावनीति प्रशस्यते-
वाल्मीकिगिरिसम्भूता, रामाम्भोनिधि-सङ्गता ।
श्रीमद्रामायणी गङ्गा, पुनाति भुवनत्रयम् ॥ 
त्रिविक्रमभट्टो नलचम्पूकाव्ये विरोधाभासमाश्रित्य वाल्मीकिम् अभिनन्दयन् आह-
सदुषणापि निर्दोषा, सखरापि सुकोमला । 
नमस्तस्मै कता येन, रम्या रामायणी कथा ॥

SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 comments: