Monday, 8 July 2019

वन का महत्व पर संस्कृत निबंध। Essay on Importance of Forest in Sanskrit

वन का महत्व पर संस्कृत निबंध। Essay on Importance of Forest in Sanskrit

वन का महत्व पर संस्कृत निबंध। Essay on Importance of Forest in Sanskrit
भारतदेशः वनानां दृष्ट्या समृद्धः वर्तते। देशस्य सकलक्षेत्रफलस्य 25 प्रतिशतानि क्षेत्राणि वनाच्छादितानि सन्ति।  वनम् अस्माकं महान् निधिः अस्ति। न केवलं वनानां रमणीयता मनांसि रंजयति, अपितु अनेन पर्यावरणमपि सुरक्षितं भवति। ये घटकाः पारिस्थितिकितंत्रं प्रभावयन्ति, तेषु घटकेषु वनं सर्वप्रमुखमस्ति। वस्तुतः वनं वसुन्धरायाः सुरक्षावलयमस्ति। वृश्टेः मुख्यं कारणं वनमेव अस्ति। इदं शुद्धं वायुं प्रददाति। मृत्तिकायाः अपर्दनं न्यूनीकरोति। जगतः तापमानस्य नियन्त्रणं करोति। अतएव वनसंरक्षणम् अत्यावश्यकमस्ति।

विविधाभिः वनसम्पद्भिः सम्पन्नानि वनानि देशे विद्यन्ते। विधिकप्रबन्धदृष्ट्या वनानि त्रिवर्गेषु विभक्तानि -आरक्षितं वनं, संरक्षितं वनम् अवर्गीकृतं वनं च।

आरक्षितं वनम् - आरक्षितवनस्य प्रबन्धनं सुव्यवस्थितं भवति। अस्य सुरक्षायाः विकासस्य च निश्चिताः योजनाः भवन्ति। राष्ट्रियोद्यानम् अभ्यारण्यं च आरक्षितं वनम् एव स्तः।

संरक्षितं वनम् - संरक्षितवने संरक्षणेन सह उत्पादनाय गतिविधयः क्रियान्विताः भवन्ति। वनविभागः योजनानुसारं
वैज्ञानिकविधिना वनोत्पादं प्राप्नोति। अत्र उत्पादनेन सह वनसंरक्षणं प्रथमं लक्ष्यमस्ति।

अवर्गीकृतं वनम् - वनभूमेः व्यवस्थापनसमये यस्य वनक्षेत्रस्य वर्गीकरणं नाभवत् तदेव अवर्गीकृतवनम्। अत्र सर्वकारेण नास्ति कोऽपि प्रतिबन्धः। अस्मिन् वनक्षेत्रे जनार्थं काष्ठसंग्रहणस्य पशुचारणस्य च स्वतन्त्रता अस्ति।

उपलब्धासु वनस्पतिषु ओषधिपादपाः प्रचुरमात्रायाम् उपलभ्यन्ते। प्रदेशस्य बहवः उद्योगाः वनोत्पादने एव अवलम्बिताः, यथा काष्ठं, कर्गदं, हरीतकी, वंशं, खदिरः च। वनानि एतानि जनेभ्यः आजीविकायाः साधनानि सन्ति।

वन्यजीवानां बहुलता विविधता च देशस्य गौरवम्। एतेषाम् उपलब्धता तत्क्षेत्रे वनानां सुस्थितिः द्योतते। एतेषु वन्यजीवेषु प्रमुखतः व्याघ्रः, तरक्षुः, वनमहिषः, हरिणः, साम्भरः, गौरः, वनवराहः, भल्लूकः, पर्वतसारिका, नीलगौः चिंकारादयः चेति। वनमहिषः राजकीयपशुः पर्वतसारिका राजकीयपक्षी च घोषितौ। वन्यजीवानां रक्षणार्थमपि वनसंरक्षणं आवश्यकम्।

नूनं वनं जीवानाम् आश्रयस्थलमस्ति। तस्मात् कारणात् देशे राष्ट्रियोद्यानानि अभयारण्यानि च संस्थापितानि सन्ति।

SHARE THIS

Author:

I am writing to express my concern over the Hindi Language. I have iven my views and thoughts about Hindi Language. Hindivyakran.com contains a large number of hindi litracy articles.

0 comments: