मेरे प्रिय अध्यापक पर संस्कृत निबंध। Mere Priya Adhyapak Nibandh in Sanskrit
मम विद्यालये सर्वे अध्यापका: अनुशासनप्रियाः सन्ति। सर्वे एव स्नेहन छात्रान् पाठयन्ति। किन्तु संस्कृताध्यापक: ‘श्रीविद्याचरण:’ मम सर्वतोऽधिकः प्रियः अध्यापकः अस्ति। सः निजविषये प्रवीणः अस्ति। अस्य स्वभावः सरल: स्नेहपूर्णः च अस्ति। सः महता स्नेहन पाठयति। छात्रान् कदापि न दण्डयति। अस्य उच्चारणम् अतीव शुद्धं विद्यते। अस्य पाठनस्य विधिः समुचितः सरलः च वर्तते अतः सर्वे छात्रा: संस्कृतविषये श्रेष्ठान् अङ्कान् प्राप्नुवन्ति। सर्वे छात्रा: अध्यापकाः अपि अस्य सम्मानं कुर्वन्ति। प्रधानाचार्यः अपि तस्य आदरं करोति। सः स्वयं सदा नित्यं वदति, तथा छात्रान अपि पाठयति यत् ‘छात्राः, सदा सत्यं वदत। स्वाध्यायं नित्यं कुरुत’ इति। सः प्रतिवर्ष विद्यालये सांस्कृतिक समारोहस्य समायोजनं करोति। गणतंत्रदिवसस्य समारोहे स्वयं देशभक्ति गीतं गायति। श्रीविद्याचरणः सर्वेषामेव छात्राणां प्रियः शिक्षकः। असौ मम आदर्शः अस्ति।
Related Sanskrit Essays :
0 comments: