Paragraph on Anushasan in Sanskrit
परिवारस्य समाजस्य विद्यालयस्य संविधानस्य संसदः सेनायाः चापि केचन नियमाः सन्ति। एतेषां नियमानां परिपालनम् अनुशासनमिति कथ्यते। सकला सृष्टिः अनुशासनमनुसरति। सूर्यः चन्द्रः तारकाः च नियमितसमये प्रकटीभूय अनुशासनस्य परिचयं प्रयच्छन्ति। ऋतवः एकस्मिन् मासे एव नायान्ति। ते भिन्नमासेषु आयान्ति। गुरुणामाज्ञापालनं वृद्धानां सेवाकरणं विपत्तौ सहायताप्रदानम् इत्यादयः परिवारस्य नियमाः भवन्ति। एतेषां नियमानां परिपालेन परिवारे आनन्दस्य वातावरणं तिष्ठति। राजमार्गस्य वामतः चलनं, यात्रापत्रग्रहणसमये पंक्तौ स्थितिः, चतुष्पथेषु मार्गनियामक-आरक्षिणां संकेतस्यानुसरणं पीडितानां सहायताकरणम् इत्यादयः समाजस्य नियमाः भवन्ति। एषां परिपालेन समाजे शान्तिः विराजते।
0 comments: