डॉ सर्वपल्ली राधाकृष्णन पर संस्कृत निबंध (Essay on Sarvepalli Radhakrishnan in Sanskrit)

Admin
0

डॉ सर्वपल्ली राधाकृष्णन पर संस्कृत निबंध (Essay on Sarvepalli Radhakrishnan in Sanskrit)

डॉ सर्वपल्ली राधाकृष्णन पर संस्कृत निबंध: सर्वपल्ली राधाकृष्णन् भारतवर्षस्य विख्यातः राजनीतिज्ञः आसीत्। सः भारतस्य द्वितीयः राष्ट्रपतिः आसीत्। सः भारतीयदर्शनानां पाश्‍चात्‍यदर्शनानां च पण्‍डितः आसीत्‌। सः अनेकानि वर्षाणि यावत् शिक्षकः सन् सः आदर्शशिक्षकः इति प्रसिद्धः आसीत्। अत एव भारतीयाः तस्य जन्मदिनं शिक्षकाणां दिनमिति आचरन्तः शिक्षणक्षेत्रे तस्य सेवां स्मरन्तः तस्मै गौरवं समर्पयन्ति।

डॉ सर्वपल्ली राधाकृष्णन पर संस्कृत निबंध (Essay on Sarvepalli Radhakrishnan in Sanskrit)

सर्वपल्ली राधाकृष्णन् दक्षिणभारतस्य तमिळनाडुराज्यस्य तिरुत्तणीनामके मण्डले १८८८ तमस्य वर्षस्य सेप्टेम्बर्मासस्य पञ्चमे दिनाङ्के जनिम् अलभत। सर्वपल्ली इति तस्य कुलस्य नाम इति प्रतीयते। राधाकृष्णन् इति पितृभ्यां प्रेम्णा नामकरणं कृतम् आसीत्। तस्य पिता सर्वपल्ली वीरस्वामी, क्षेत्राधिपतेः सकाशे दैनिकवेतनाश्रितः कर्मकरो भूत्वा कार्यं कुर्वन् पुत्रस्य सर्वविधश्रेयसे कारणीभूतः अभवत् । यदा पिता दैनिकवेतनम् एव अवलम्ब्य जीवन् कुटुम्बभरणार्थम् अतिक्लेशम् अनुभवति स्म तदा एव अयं बालः राधाकृष्णः पठने उत्सुकः आसीत्। शिष्यवेतनेनैव प्राथमिकं तथा प्रौढशिक्षणं समाप्य मड्रास्(इदानीन्तनं चेन्नै) क्रिश्चियन् कलाशालायां तत्त्वज्ञानविषयम् आश्रित्य पदवीं स्नातकोत्तरपदवीं च सम्पादितवान्। स्नातकोत्तरपदव्यां तेन मण्डितः ”दि एथिक्स् आफ् वेदान्त” प्रबन्धः तस्य जीवनदिशम् एव पर्यवर्तयत्। विंशतिवर्षीयस्य युवकस्य प्रतिभां, ज्ञानम्, वेदान्तविचारान् च समीक्ष्य 'भविष्ये एषः श्रेष्ठस्थानं प्राप्स्यति' इति तेषां कलाशालायाः अध्यापकाः परस्परं वदन्ति स्म।

वेल्लूरुमध्ये वसनावसरे षोडशवर्षीयः युवा सः शिवकामम्मानामिकां कन्याम् ऊढ्वान्। १९०९ तमे वत्सरे मद्रास्नगरे विद्यमानायां प्रेसिडेन्सी-कलाशालायां साहाय्यकोपन्यासकः सन् अभीप्सितां वृत्तिम् आरभत। तेन संस्‍कृतभाषायाः हिन्‍दीभाषायाः च अध्‍ययनं कृतम्‌। भारतस्‍य प्राचीनासु भाषासु तस्य अभिरुचिः आसीत्‌। भारतस्य सनातनहिन्दूधर्मस्य सारं, वेदोपनिषदः, जैनतत्त्वज्ञानम्, शङ्कर -रामानुज-मध्व-प्लेटो-प्लाटिनेस्-कान्त्-ब्र्याड्ले इति अनेकेषां महनीयानां तत्त्वं गाढतया अधीतवान् सः। सतताध्ययनेन कठिनपरिश्रमेण च क्रमशः सोपानानि आरोहन् अग्रे सरन् १९१८ तमे वर्षे मैसूरुविश्वविद्यालयस्य तत्त्वज्ञानविभागस्य उपन्यासकत्वेन चितः अभवत्। १९३१ तमे वर्षे आन्ध्रविश्वविद्यालयस्य उपकुलपतित्वेन चितः राधाकृष्णन् पञ्चवर्षाणि यावत् स्वसेवावधौ आत्मानम् उत्तमप्रगतिनिष्ठः इति निरूपयन् तस्य विश्वविद्यालयस्य परिवर्तने प्रधानपात्रम् अवहत्। १९३९ तमे वर्षे बनारस्-विश्वविद्यालयस्य कुलपतित्वेन चितः अभवत्। तत्रापि स्वानुभवस्य प्राबल्येन विश्वविद्यालयस्य सर्वविधाभिवृद्धौ परिश्रमं कृतवन्तं राधाकृष्णन्-महाभागं सर्वकारः १९४८ तमे वर्षे विश्वविद्यालयशिक्षणायोगस्य मुख्यस्थरूपेण नियुक्तिम् अकरोत्। १९४९ तमे वर्षे सोवियत्-रशिया-देशस्य राजदूतत्त्वेन नियुक्तः रधाकृष्णन् साल्टिन् सदृशमेधाविभिः समं स्वव्यक्तित्वम् अभ्यवर्धयत्।

१९५२ तमे वर्षे शिक्षकः एषः ऐदम्प्राथम्येन भारतस्य उपराष्ठ्रपतित्वेन नियुक्तः। राधाकृष्णन् राज्यसभायां संस्कृतश्लोकानाम् उद्धरणेन संसत्सदस्यान् आत्माभिमुखान् कर्तुं समर्थः भवति स्म। राधाकृष्णन्-महाभागस्य अपारसेवां परिगणय्य भारतसर्वकारः १९५४ तमे वर्षे प्रतिष्ठितं भारतरत्नोपाधिं तस्मै प्रदाय तं सभाजयामास । अस्मिन् एव सन्दर्भे अमेरिकादेशे राधाकृष्णम् उद्दिश्य लिखितस्य ”फिलासफि आफ् डा सर्वपल्ली राधाकृष्णन्”इति पुस्तकस्य विमोचनमभवत्। डा राजेन्द्रप्रसादस्य पश्चात् १९६२ तमे वर्षे भारतस्य द्वितीयराष्ठ्रपतित्वेन चितः राधाकृष्णन् स्वाधिकारावधौ देशस्य सर्वविधोन्नत्यै श्रमं व्यदधात्। अन्ताराष्ट्रियस्तरे अपि भारतस्य सम्बन्धं संवर्धयन् देशस्य आन्तरिककलहविषये अधिकं व्यवधानम् अयच्छन् 'देशस्य प्रगतेः प्रवर्तकः' आसीत् इत्यत्र नास्ति सन्देहः। भारतीयशिक्षणक्षेत्राय सार्थकपरिधिंप्रदानेन शिक्षाक्षेत्रे तत्त्वज्ञाने देशस्य अभिवृद्ध्यर्थम् आत्मानं पूर्णतया समर्पयत् सः। भारतीयानां सवेर्षां चित्ते सर्वदा स्थानम् अवाप्नुवत्। एषः शिक्षणतज्ञः अपि आसीत्। अतः एतस्य जन्मदिनं प्रतिवर्षं सप्टम्बरमासस्य पञ्चमे दिनाङ्के शिक्षकाणां दिनम् इति आचर्यते।

देश-विदेशानां पत्रिकासु तेन लिखिताः स्वाध्ययनभूयिष्ठाः बहवः विचाराः प्रकशिताः अभवन्। "दि फिलासफि आफ् रवीन्द्रनाथ ठ्यागोर्" इत्येतत् तेन लिखितं प्रथमं पुस्तकम्। एषः तेलगुभाषया राधाकृष्णय्य इति हस्ताङ्कनं करोति स्म। मैसूरुनगरे एतस्य नाम्ना कश्चन मार्गः वर्तते। भारतस्य पत्रिकोद्यमक्षेत्रे प्रकाशमानः एषः अग्रे "जिनीन् मेनिफेस्टेषन् आफ् इण्डियन् स्पिरिट् एवं रीजन् आफ् इण्डियन् काण्टेम्पररि फिलासफि" इति पुस्तकम् अलिखत्। स्वपाण्डित्यप्रभावेण देशविदेशेष्वपि प्रख्यातिमलभत। एतस्य तत्त्वज्ञानस्य प्रभया आकृष्टः आक्सफर्ड् विश्वविद्यालयः 'धर्मः तथा नीतिशास्त्रम्'इति विषये उपन्यासं प्रदातुं तं समाह्वयत्। तदा स्वविचारं मण्डयन् एषः सप्तसागरमतीत्य अपि भारतस्य किर्तिध्वजमुदतोलयत्। भारतीयानां स्वातन्त्र्यार्थमपि आन्दोलनं कुर्वन् भारतीयसनातनधर्मविषये तथा तत्त्वज्ञानस्य विषये तान् उदबोधयन् तान् पर्यवर्तयत्। १९६७ तमे वर्षे राष्ट्र्पतिस्थानस्य अधिकारावधेः परिसमाप्त्यनन्तरं निवृत्तिजीवनं मड्रासनगरस्थे मैलापुरे विद्यमाने स्वनिवासे यापयन् आसीत् सः। १९७५ तमवर्षस्य एप्रिल्- मासस्य १९ दिनाङ्के सः इहलोकयात्रां समाप्य परलोकं प्रातिष्ठत।

Related Article : 

शिक्षक दिवस पर संस्कृत श्लोक (Sanskrit Shlok on Teachers Day)

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !