देहरादून पर संस्कृत निबंध (Essay on Dehradun in Sanskrit)
देहरादून पर संस्कृत निबंध: उत्तराखण्डराज्ये किञ्चनमण्डलम् अस्ति देहरादूनमण्डलम्। अस्य मण्डलस्य केन्द्रम् अस्ति देहराडूननगरम्। देहरादून् नगरम् उत्तराखण्डस्य राजधानी प्रवासिजनाः एतं प्रदेशं द्रष्टुं मस्सूरीप्रदेशं गन्तुं च अत्र आगच्छन्ति। अत्यन्तम् उत्तमं वीक्षणस्थानमेतदस्ति। अत्रत्य अरण्यसंशोधनाकेन्द्रं विश्वे एव प्रसिद्धम् अस्ति । सर्वे आफ् इण्डिया केन्द्रमप्यस्ति। इतः ८ कि.मी. दूरे चोरगुहा(राबर्सकेव्) इति स्थलम् अपूर्वमस्ति। एतत् स्थलम् सुप्रसिद्धं प्रवासिस्थलम् भवति। भव्यानि अरण्यानि, पर्वतप्रदेशाः,नदीतीरप्रदेशाः अस्मान् आकर्षयन्ति। अत्र विद्यमानयाः नद्यायाः वैशिष्ट्यम् अस्ति। तत् किमितिचेत्, नदीतीरे विद्यमानं जलं क्षणाभ्यन्तरे अदृश्यं भवति। किञ्चित् कालानन्तरं किञ्चित् दूरं गत्वा अनन्तरम् फेनरूपेण बहिरागच्छति।