संस्कृत दिवस पर संस्कृत निबंध (Essay on Sanskrit Diwas in Sanskrit) भारते प्रतिवर्षं श्रावणी पूर्णिमा अवसरे संस्कृत दिवसं निर्मान्ति। श्रावणी पूर्णिमा
संस्कृत दिवस पर संस्कृत निबंध (Essay on Sanskrit Diwas in Sanskrit)
भारते प्रतिवर्षं श्रावणी पूर्णिमा अवसरे संस्कृत दिवसं निर्मान्ति। श्रावणी पूर्णिमा अर्थात् रक्षा बन्धनं ऋषिणां स्मरणं पूजनं समर्पणं दिवसं च मानयन्ति। वैदिक साहित्ये श्रावणी इति वदन्ति स्म। एतस्मिन् दिने गुरुकुलेषु वेदाध्ययानात् पूर्वं यज्ञोपवीतधारणं कारयन्ति। अयं संस्कारः उपनयनसंस्कारः उपाकर्म संस्कारः वा उच्यते । एतस्मिन् दिने जनाः पुरातनं यज्ञोपवीतं परिवर्तयन्ति। ब्राह्मणानां यजमानाः रक्षासूत्रं बन्धन्ति। ऋषयः एव संस्कृत साहित्यस्य आदि स्रोतारः अतः श्रावणी पूर्णिमा ऋषि पर्व अतः सस्कृत दिवस रूपेण निर्मान्ति। राज्ये तथा जनपदेषु संस्कृत दिवसस्य आयोजनं कुर्वन्ति। एतस्मिन् अवसरे संस्कृत-कवि-सम्मेलनं, लेखक-गोष्ठी, छात्राणां भाषणानि तथा श्लोक उच्चारणादि कार्यक्रमानां आयोजनं कुर्वन्ति, संस्कृत विद्यार्थिनः कवयः लेखकाः च उचितं मञ्चं प्राप्ताः भवन्ति।
१९६९ तमे वर्षे भारत सर्वकारस्य शिक्षा मन्त्रालयस्य आदेशेन केन्द्रीयस्तरेषु राज्यस्तरेषु च संस्कृत दिवसं निर्मातुं निर्देशः कृतः। ततः सम्पूर्णे भारते संस्कृत दिवसं श्रावण पूर्णिमा दिने कुर्वन्ति।
एतस्य दिनस्य चयनं अतः कृतवन्तः प्राचीने भारते शिक्षण सत्रस्य आरम्भः भवति स्म। एतस्मिन् दिने वेदपाठस्य आरम्भः भवति स्म तथैव छात्राः शास्त्रस्य अध्ययनं प्रारम्भं कुर्वन्ति स्म। पौष मास पूर्णिमातः श्रावण मासस्य पूर्णिमापरियन्तं अध्ययनं पिहितं भवति स्म। प्राचीने काले पुनः श्रावण पूर्णिमातः पौष पूर्णिमापरियन्तं अध्ययनं भवति स्म।
वर्तमाने गुरुकुलेषु श्रावण पूर्णिमातः वेदाध्ययनस्य प्रारम्भः भवति। अतः एतत् दिनं संस्कृत दिवस रूपेण निर्मान्ति। अद्य श्वः देशे एव नापितु विदेशे अपि संस्कृत उत्सवं उत्साह रूपेण निर्मान्ति।
केन्द्रस्य राज्यस्य सर्वकारस्य योगदानं उल्लेखनीयं अस्ति। यस्मिन् सप्ताते संस्कृत दिवसः आगच्छति, सः सप्ताहः पूर्व वर्षेभ्यः संस्कृत सप्ताहः रूपेण निर्मितः भवति। सीबीएसई विद्यालयेषु देशे समस्तेषु विद्यालयेषु उत्साह रूपेण निर्मान्ति। उतराखण्डे संस्कृतं आधिकारिक भाषा रूपेण घोषिता अतः संस्कृत सप्ताहे प्रतिदिनं संस्कृत भाषायां बहवः कार्यक्रमाः प्रतियोगिताः च भवन्ति। संस्कृतस्य छात्र-छात्राः ग्रामेषु नगरेषु च शोभायात्राः कुर्वन्ति। संस्कृत दिवसः एवं संस्कृत सप्ताहं निर्मान्ति।
COMMENTS