शेर पर संस्कृत निबंध (Essay on Lion in Sanskrit)
शेर पर संस्कृत निबंध: सिंहः पशुः वनवासी पशुः अस्ति। सिंहः (शेर) ग्रामे न वसति, किन्तु वने। सिंहस्य शरीरं दीर्घं दृढं च भवति। सिंहः 'जङ्गलराजः' इति उच्यते। अरण्यवासिनां गजशार्दूलवराहादीनां मध्ये सिंहः शूरः गम्भीरः बलिष्ठश्च। अनुपमपराक्रमेण सः सर्वान् मृगान् अतिशेते। अत एव तस्य 'मृगराजः’ इति प्रसिद्धिः अस्ति पराक्रमे सिंहाः लोकसिद्धाः। अनेन कारणेन वीरपुरुषान् सिंहाः इति प्रशंसन्ति।
सिंहस्य शिरसि कण्ठे च केसराः सन्ति। तस्मात् तस्य ‘केसरी’ इति अपरं नाम । तस्य आस्यम् अतीव विस्तृतम्। तेन कारणेन तं पञ्चास्यः इति च व्यवहारन्ति। सिंहस्य लोचने पिङ्गलवर्णे स्तः। तस्य अतिदीर्घाः निशिताः नखाः परुषाः दन्ताश्च सन्ति।
केसरिणः न सर्वेषु देशेषु निवसन्ति। आफ्रिकाखण्डे ते प्राचुर्येण सञ्चरन्ति। इदानीं गुजरात् -राज्यस्य दक्षिणप्रान्तारण्येषु च वसन्ति।
मृगराजः प्राधान्येन गजस्य कुम्भस्थलं भित्त्वा तत्रस्थं मांसं भक्षयति। सः वने स्थितान् इतरानपि मृगान् ह्त्वा खादति। तदा तदा सः तारं गर्जति। तत् भीकरगर्जनं श्रुत्वा मृगाः इतस्ततः धावन्ति। तत्समये सिंहः तेषामुपरि निपत्य तान् संहरति। यदा तस्य आहारः आवश्यकः तदा एव सः मृगान् व्यापादयति।
प्रायशः आहारमलभमानः सिंहः सर्वावयवान् स्तब्धीकृत्य भूमौ पतित्वा मृत इव नाटयति। मृगाः तथास्थितं तं मृतं मन्यमानाः तस्य समीपे निशशङ्कां चरन्ति। सिंहः सहसा उत्थाय स्व्समीपमागतं मृगं गृह्णाति। एवं मृगोन्द्राः स्वबुद्धिचातुर्येण आहारं सम्पादयन्ति।
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरयैः । न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥