Wednesday, 31 August 2022

सरोजिनी नायडू पर संस्कृत निबंध (Essay on Sarojini Naidu in Sanskrit)

सरोजिनी नायडू पर संस्कृत निबंध (Essay on Sarojini Naidu in Sanskrit)

सरोजिनी नायुडु स्वातन्त्र्यसङ्ग्रामस्य क्रान्तिकारिषु चतुरक्रान्तिकारित्वेन परिगण्यते। तस्याः कार्याणि भारतस्य स्तन्त्रतायां महत्वपूर्णानि आसन्। १८७९ तमस्य वर्षस्य 'फरवरी'-मासस्य त्रयोदशे दिनाङ्के आन्ध्रप्रदेशराज्यस्य हैदराबाद-महानगरे सरोजिनी नायुडु इत्यस्याः जन्म अभवत्। तस्याः पितुः नाम अघोरनाथ चट्टोपाध्याय आसीत्। तस्याः मातुः नाम वरदसुन्दरी आसीत्। तस्याः पिता मूलतः वङ्गप्रदेशीयः आसीत्। सरोजिन्याः पत्युः नाम डा. मुत्याल गोविन्द राजुलु नायुडु आसीत्। तयोः पञ्च सन्तानाः आसन्। सः हैदराबाद-महानगरस्य निज़ाम-महाविद्यालये विज्ञानविषयं पाठयति स्म। विज्ञानविषयस्य प्राध्यापके सत्यपि सः भारतीयसंस्कृतेः ज्ञाता आसीत्। तस्याः माता वरदसुन्दरी महाविदुषी आसीत्। सा वङ्गभाषायाम् अनेकानि गीतानि अलिखत्। पितुः बुद्धेः, मातुः प्रतिभायाः च मेलनं सरोजिन्याम् आसीत्।

सरोजिनी नायडू पर संस्कृत निबंध (Essay on Sarojini Naidu in Sanskrit)

तस्याः अविरतप्रयासेनैव स्वतन्त्रतान्दोलने महिलानां योगदानम् अवर्धत। सा स्त्रीसशक्तीकरणाय आजीवनं कार्यमकरोत्। महात्मनः प्रेरितेषु अधिकतम-आन्दोलनेषु तस्याः महत्वपूर्णं योगदानमासीत्। तस्याः बुद्धिमत्तायाः कारणेनैव आङ्ग्लानां भारतविरोधीनि बहूनि कार्याणि निष्फलानि अभवन्।

सरोजिन्याः बाल्यं हैदराबाद-महानगरे एव व्यतीतम्। बाल्यकालादेव सरोजिनी अतिमेधाविनी, चतुरा च आसीत्। अतः पितुः इच्छा आसीत् यत्, “मम पुत्री वैज्ञानिकः गणितज्ञा वा भवेत्” इति। परन्तु सरोजिन्याः रुचिः साहित्ये आसीत्। एकदा गणितस्य गणनायाः उपरि तया काव्यं रचयित्वा स्वरुच्याः परिचयः प्रदत्तः। मद्रासविश्वविद्यालयात् तया 'मेट्रिक्'-इत्यस्य अध्ययनं समापितम्।

सरोजिन्यां रचनात्मकप्रतिभा ईश्वरेण जन्मकाले एव प्रदत्ता आसीत्। त्रयोदशे वयसि तया १३०० पङ्क्तीनां काव्यं रचितम्। तस्य काव्यस्य नाम ‘द लेडी ऑफ् द लेक्’ आसीत्। तत् काव्यं बहुप्रसिद्धम् अभवत्। ततः फारसी-भाषायां सा एकं नाटकम् अरचयत्। तस्य नाटकस्य नाम ‘मेहर मुनीर’ आसीत्। पिता अघोरनाथः पुत्र्याः नाटकं निज़ाम इत्येनं प्रादर्शयत्। सरोजिन्याः प्रतिभया सः अपि प्रभावितः अभवत्। सः अघोरनाथम् असूचयत्, “एतस्याः सम्पूर्णः अभ्यासः छात्रवृत्त्या भविष्यति। अतः त्वम् एनां पठितुं विदेशं प्रेषस्व” इति।

सरोजिनी यदा षोडशवर्षीया आसीत्, तदा सा इङ्ग्लैण्ड-देशम् अगच्छत्। तत्र वर्षत्रयं यावत् सा अभ्यासम् अकरोत्। किङ्ग्स् महाविद्यालयस्य एड्मण्ड् गॉस्, आर्थर् सैमन् इत्येताभ्यां विद्वद्भ्यां सह सम्पर्कत्वात् तस्यां कवित्वशक्त्याः वर्धनम् अभवत्। इङ्ग्लैण्ड-देशे यदा सरोजिनी अध्ययनं करोति स्म, तदा सा डा. मुत्याल गोविन्द राजुलु नायुडु-नामकस्य युवकस्य सम्पर्के आसीत्। सः तस्याः सहपाठी आसीत्। वर्षत्रयं यावत् उभौ सहाभ्यासमेव अकुरुताम्। अध्ययनं समाप्य यदा तौ भारतं सम्प्राप्तौ, तदा तौ विवाहस्य निश्चयम् अकुरुताम्। ततः मासत्रये तु तयोः विवाहः अपि अभवत्।

सरोजिनी बुद्धि-प्रतिभयोः स्वामिनी आसीत्। तस्याः व्यक्तित्वम् अत्याकर्षकं, स्वभावश्च विनोदी आसीत् । महात्मना, लोहपुरुषेण च सह सा विनोदेन भाषणं करोति स्म। सा लोहपुरुषं “बोरडोली-मण्डलस्य वृषभः (बोरडोली का बैल)” इति निर्दिशति स्म । एकदा कारागारयात्रानन्तरं सा महात्मनः गृहम् अगच्छत्। महात्मा ताम् अपृच्छत्, “कारागारे भवत्याः केशाः अधिकाः श्वेताः अभवन् खलु ?” महात्मनः प्रश्नस्य सरोजिनी स्वविनोदस्वभावानुसारम् उत्तरम् अयच्छत्, “मम केशानां श्वेतीभवनस्य पृष्ठे कारागारस्य दोषः न अपि तु तव दोषः एव। त्वं बहूपवासान् कुर्वन् आसीत्, अतः अहं चिन्तियामि स्म यत्, महात्मनः एषः उपवासः अन्तिमस्तु नास्ति खलु। एतादृशैः विचारैः चिन्ताग्रस्ता अहं श्वेतकेशस्य स्वामिनी अभवम्” इति। तस्याः उत्तरं श्रुत्वा उपस्थिताः सर्वे अट्टहास्यम् अकुर्वन्।

सा अनेकानां भाषाणां विदुषी अपि आसीत्। वङ्गभाषा, तेलुगुभाषा, हिन्दीभाषा, मराठीभाषा, तमिळभाषा, आङ्ग्लभाषा च तासु मुख्याः भाषाः। गर्भकवयित्री सा अनेकाः कविताः अलिखत्। महात्मा तां 'भारतस्य बुलबुल' कथयति स्म। 'नैटिङ्गेल् ऑफ् इण्डिया' (Nightingale of India) इत्युपाधिना सा प्रसिद्धा आसीत्। तस्याः कवितायाः विषये रवीन्द्रनाथः अलिखत्, “सरोजिन्याः रचनायाः गहनता, भावश्च मयि सरोजिनीं प्रति ईर्ष्यां जनयतः” इति।


SHARE THIS

Author:

I am writing to express my concern over the Hindi Language. I have iven my views and thoughts about Hindi Language. Hindivyakran.com contains a large number of hindi litracy articles.

0 comments: