संस्कृत में पृथ्वी पर निबंध (Essay on Earth in Sanskrit) पृथ्वी सूर्यमण्डले तृतीयः ग्रहः अस्ति। जीवनाय अनुकूलाः परिस्थितयः पृथ्व्याम् एव सन्ति। पृथ्वी
संस्कृत में पृथ्वी पर निबंध (Essay on Earth in Sanskrit)
संस्कृत में पृथ्वी पर निबंध - 1
पृथ्वी सूर्यमण्डले तृतीयः ग्रहः अस्ति। ग्रहाणां गुरुत्वानुगुणं पञ्चमस्थाने भवति। एषा कदाचित् लोक:, वैज्ञानिकभाषायां Earth वा अपि भाष्यते। पृथिवी ४।५४ कोटिवर्षेभ्य: प्राक् जनिमलभत। जैवविविधता एतस्या: ख्याति:। पृथिव्या: पर्यावरणं कालश: तस्याः वातावरणं विध: कृतं तेन च जीवसृष्टि: निर्मिता। पृथिव्या: उपरि एका ओझोन नाम्ना पट्टिका अस्ति। एतस्याः पृथिव्या: रक्षण: भवति। जलेन विना जीवितं व्यर्थम् इति उक्तं सत्य:। जलस्य लाभ: पृथिव्याम् अतीव। अत: पृथिव्यां जीवन: सुसह्यः अस्ति।
संस्कृत में पृथ्वी पर निबंध - 2
पृथ्वी सूर्यमण्डले तृतीयः ग्रहः अस्ति। जीवनाय अनुकूलाः परिस्थितयः पृथ्व्याम् एव सन्ति। पृथिव्याः जीवानां कृते आवश्यकं तत्त्वम् अस्ति जलम्। जलं सौरमण्डले दुर्लभं वर्तते। अन्यत्र कुत्रापि जलं नास्ति। अस्माकं सौभाग्यम् अस्ति यत् पृथिवी जलीयः ग्रहः वर्तते । पृथिव्याः पर्यावरणे त्रीणि मण्डलानि सन्ति। स्थलमण्डलं, जलमण्डलं, वायुमण्डलं च। पृथिव्यां जैवमण्डलम् अपि वर्तते। पृथिव्या: उपरि एका ओझोन नाम्ना पट्टिका अस्ति। एतस्याः पृथिव्या: रक्षण: भवति। पृथ्वीग्रहः सौरमण्डलस्य पञ्चमबृहत्तमः ग्रहः अस्ति। पृथिव्यां जैवमण्डलम् अपि वर्तते। पृथिव्याः सर्वैः जीवधारिभिः जैवमण्डलस्य रचना अभवत्।
संस्कृत में पृथ्वी पर निबंध - 3
Essay on Earth in Sanskrit : पृथ्वी कश्चित् ग्रहः अस्ति। सूर्यमण्डले पृथ्वी तृतीये क्रमाङ्के स्थिता अस्ति। पृथ्वीग्रहः सौरमण्डलस्य पञ्चमबृहत्तमः ग्रहः अस्ति। जीवनाय अनुकूलाः परिस्थितयः पृथ्व्याम् एव सन्ति। पृथ्वी अधिकोष्णा नास्ति, अधिकशीतलापि नास्ति। पृथ्व्यां वायुः, जलम् च अस्ति। जीवनस्य कृते वायुजलयोः आवश्यकता भवति। अत्र प्राणवायुः अपि अस्ति, येन श्वसनतन्त्रं चलति। अनेन कारणेन पृथ्वी सौरमण्डलस्य अद्भुतग्रहः विद्यते। पृथिव्याः प्रकृतिः विशिष्टा वर्तते। तस्य विषये इदानीम् अपि स्पष्टं नास्ति। पृथिव्याम् अनेकाः पदार्थाः सन्ति। पृथिव्याः उपरिभागः स्थलमण्डलेन आवृतः अस्ति।
ज्वालामुखिना पृथिव्याः बहवः पदार्थाः बहिरागच्छन्ति। ज्वालामुखिनः अत्युष्णः द्रवपदार्थः, मृत्तिका, धूम्रः, अग्निः, मैग्मा च बहिरागच्छति। तेन एव वैज्ञानिकाः अनुमानं चिन्तयन्ति। वैज्ञानिकाः भौगोलिके संशोधने कार्यरताः भवन्ति। तेन वैज्ञानिकानां समीपं पृथिव्याः विषये विशिष्टं ज्ञानं भवति। अतः ते पृथिव्याः, ब्रह्माण्डस्य च संरचनायाः विषये सूक्ष्मतया जानन्ति। भूगर्भस्य संरचना कथम् अस्ति ? तस्मिन् के पदार्थाः प्राप्यन्ते ? इति विषयम् आधृत्य वैज्ञानिकाः निरन्तरम् संशोधनं कुर्वन्तः सन्ति। पृथिव्याः केन्द्रे गन्तुं अशक्यम् अस्ति, किन्तु केवलम् अनुमानेन वैज्ञानिकाः ज्ञानं प्राप्नुवन्ति। प्रेक्षणैः अपि ते संशोधने नूतनान् विषयान् अवगच्छन्ति। भूगर्भस्य ज्ञानार्थं प्रत्यक्षाप्रत्यक्षौ स्रोतसी स्तः।
ग्रहेषु पृथिव्याम् एव जीवनं सम्भवम् अस्ति। यतः जीवनाय भूमेः, जलस्य, वायोः च आवश्यकता वर्तते। तानि सर्वाणि तत्त्वानि पृथिव्याम् उपलब्धानि सन्ति। पृथिव्याः पर्यावरणस्य त्रयः महत्वपूर्णाः घटकाः परस्परं मिलन्ति, परस्परं प्रभावयन्ति च। पृथिव्याः पर्यावरणे त्रीणि मण्डलानि सन्ति। स्थलमण्डलं, जलमण्डलं, वायुमण्डलं च। पृथिव्यां जैवमण्डलम् अपि वर्तते। पृथिव्याः सर्वैः जीवधारिभिः जैवमण्डलस्य रचना अभवत्। एते सर्वे जीवधारिणः अन्यैः मण्डलैः सह पारस्परिकक्रियां कुर्वन्ति। पृथिव्याः सर्वे जीवितघटकाः जैवमण्डले विद्यन्ते। तेषु – पादपाः, जन्तवः, प्राणिनः, सूक्ष्मजीवाः च सन्ति।
अधिकाः जीवाः स्थलमण्डले एव प्राप्यन्ते। किन्तु तेषु बहवः जीवाः वायुमण्डले जलमण्डले अपि प्राप्यन्ते। केचित् जीवाः मण्डलद्व्ये अपि स्वतन्त्रतया विचरणं कर्तुं शक्नुवन्ति। जैवमण्डलं, जैवमण्डलानां घटकाः च पर्यावरणस्य महत्वपूर्णानि तत्त्वानि सन्ति। एतानि तत्त्वानि भूम्या, जलेन, मृत्तिकया इत्यादिभिः सह पारस्परिकक्रियां कुर्वन्ति। तापमानेन, वर्षया, आर्द्रतया, सूर्यप्रकाशेन एतानि तत्त्वानि प्रभावितानि भवन्ति। जैविकघटकानां भूमिवायुजलैः सह परस्परम् आदानं, प्रदानं च जीवानां विकासाय च साहाय्याय कल्पते।
COMMENTS