Essay on Hard Work in Sanskrit Language : In This article, We are providing परिश्रम पर संस्कृत निबंध। This Essay on Hardwork in sanskri...
Essay on Hard Work in Sanskrit Language : In This article, We are providing परिश्रम पर संस्कृत निबंध। This Essay on Hardwork in sanskrit is also searched as Essay on Parishram in sanskit or उद्योगः संस्कृत निबंध।
परिश्रम पर संस्कृत निबंध - Essay on Hard Work in Sanskrit Language
अस्मिन् संसारे सर्वे जनाः सुखं
वाञ्छन्ति, तेनैव च ते अहर्निशं परिश्रम कुर्वन्ति।
परिश्रमेण विना कस्यापि कार्यस्य सिद्धि न भवति। कार्यसिद्धिस्तु उद्योगेनैव भवति।
यदि वयं विषयेऽस्मिन् सूक्ष्मरूपेणं चिन्तयेम, तर्हि देवाः अपि कार्यसिद्धिकरणे परिश्रमेण विना समर्थाः न भवन्ति। अनेनैव
तेऽपि कार्यसिद्ध्यर्थं भूमौ अवतारं गृह्णन्ति, परिश्रमं विना दैवमपि पंगुः भवति। अनेनैव केनापि कविना कथितम्
यथा टेकेन चक्रेण न रथस्य
गतिर्मवेत्।
तथा पुरुषकारेण विना दैवं न
सिद्धयति।
संसारेऽस्मिन् द्विधा जनाः
दृश्यन्ते। तत्र केचन तु परिश्रममेव सफलतायाः प्रमुखं कारणं मन्यन्ते। अन्ये तु
भाग्यवादिनः 'ये भाग्यं एव सर्वं', इति मन्यन्ते, किन्तु
भाग्यवादिनः जनाः नैराश्यमेव लभन्ते। अनेनैव कथ्यते
उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः,
दैवेन देयमिति का पुरुषाः वदन्ति।
दैवं निहत्य कुरु पौरुषमात्मशक्त्या,
यत्ने कृते यदि न सिद्धयति कोऽत्र
दोषः।।
स्वयमेव विचारयन्तु भवन्तः। यदि
कृषकः परिश्रमं न करोति, क्षेत्रं न
कर्षति, बीजानि न वपति, काले शस्यानि जलेन न सिञ्चति, तर्हि किं
सः सस्यानां स्वादुफलं आस्वादयति। कथं सः अन्येभ्यः स्वादिष्टान्नस्य उत्पत्ति
कर्तुं शक्यते।
एवमेव छात्राणां विषये, यदि कोऽपि छात्रः परीक्षायां परिश्रमं न करोति, तर्हि सः तस्यां साफल्यं न लभते। सफलता प्राप्त्यर्थं तु तेन
अहर्निशं उद्योगः कर्तव्यः एव।
वस्तुतः भाग्यवादिनः मूर्खाः
प्रमादिनः च भवन्ति, कुतः ते परिश्रमेण विना वै सुखं
वाञ्छन्ति। परिश्रमाभावे किं ग्रासमेकमपि मुखे परिचलति? भाग्यवादिनः तु कथयन्ति "भाग्यं फलति सर्वत्र, न विद्या न च पौरुषम्"।
किन्तु कथनं एतत् भ्रान्तिमूलकं
असत्यं चास्ति। कुतः विचारयन्तु भवन्तः एव, भाग्यं किं, तदपि तु पूर्वजन्मकृतानां कर्मणां
निर्मितिः एव अस्ति। अतः कर्मणः मुक्तिः कथं स्यात्।
अनेनैव सम्पूर्ण विश्वसाहित्ये
आलस्यं शरीरस्थो महान् रिपुः कथ्यते। आलस्येन कोऽपि जीवः विनश्यति, किन्तु परिश्रमः जनस्य कस्यापि प्राणिनः वा सर्वोत्कृष्टः
बन्धुः वर्तते, कथितम् च
आलस्यं हि मनुष्याणां शरीरस्थो महान्
रिपुः।
नास्त्युथमसमो बन्धुः यं कृत्वा
नावसीदति।।
कोऽपि जनः जन्मतः महान् लघुः वा न भवति।
संसारेऽस्मिन् जन्मनि सः यत् यत् कर्म करोति; तथैव भवति। अथकपरिश्रमेणैव सः महापुरुषो भवति। भाग्यवादिनस्तु, निरुद्योगिनः मन्दाः इव आचरंन्ति ते सदैव यत्नेन विना सखं
वाञ्छन्ति, किन्तु साफल्यं न लभन्ते। ते प्रायः
स्वपन् एव स्व काले नयन्ति। अनेनैव ते कदापि स्व परिवारस्य च परिपोषणं कर्तुं
समर्थाः न भवन्ति।
उद्योगेनैव जनाः विद्वांसः, वैज्ञानिकाः, धनिकाः
यशस्विनश्च भवन्ति परिश्रमं करोति सःवै विजयतां लभते। ईश्वरोअपि तस्य सहाय्यं
करोति,येन स्वस्य सहायता क्रियते। अल्पीयसी
पिपिलिका कठोर परिश्रमेणैव पर्वतमपि लंघयते, किन्तु न गच्छन् वैनतेयोऽपि एकं पदं न परिचलति। केनापि कविना सत्यमेव
भणितम्
उद्योगेनैव सिद्ध्यन्ति कार्याणि न
मनोरथैः।
न हि सुप्तस्य सिंहस्य प्रविशन्ति
मुखे मृगाः।।
अतः
अस्माभिः सदैव उद्योगः कर्तव्यः।
COMMENTS