उद्यमेन हि सिद्धयन्ति कार्याणि न मनोरथैः संस्कृत निबंध : अस्मिन् संसारे सर्वे जनाः सुखं वाञ्छन्ति। किन्तु केवलं इच्छामात्रेण सुखं न प्राप्यते। सुखप्राप्त्यर्थम् उद्यम: आवश्यकः। सत्यमेव उक्तम् ‘उद्यमेन हि सिद्धयन्ति कार्याणि, न मनोरथैः। न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः।' अर्थात् सुप्तस्य सिंहस्य मुखे मृगा; स्वयं न प्रविशन्ति। यदि सिंह मृगं हन्ति तर्हि सः तं खादति अन्यथा न। यदि पुरुषः उद्योगं करोति तर्हि स; साफल्यं लभते। आलस्येन मनुष्य: किमपि न प्राप्नोति। आलस्यं मनुषस्य महान् शत्रुः अस्ति।
उद्यमेन हि सिद्धयन्ति कार्याणि न मनोरथैः संस्कृत निबंध
अस्मिन् संसारे सर्वे जनाः सुखं वाञ्छन्ति। किन्तु केवलं इच्छामात्रेण सुखं न प्राप्यते। सुखप्राप्त्यर्थम् उद्यम: आवश्यकः। सत्यमेव उक्तम् ‘उद्यमेन हि सिद्धयन्ति कार्याणि, न मनोरथैः। न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः।' अर्थात् सुप्तस्य सिंहस्य मुखे मृगा; स्वयं न प्रविशन्ति। यदि सिंह मृगं हन्ति तर्हि सः तं खादति अन्यथा न। यदि पुरुषः उद्योगं करोति तर्हि स; साफल्यं लभते। आलस्येन मनुष्य: किमपि न प्राप्नोति। आलस्यं मनुषस्य महान् शत्रुः अस्ति।
छात्रा: उद्यमेन, अभ्यासनैव परीक्षायाम् उत्तीर्णाः भवन्ति। य: आलस्यं कृत्वा स्वापिति, पाठं न स्मरति, अभ्यासं न करोति स: अनुत्तीर्ण: एव भवति। एतत् सुभाषितं विख्यातम्।
‘अलसस्य कुतो विद्या अविद्यस्य कुतो धनम्
अधनस्य कुतो मित्रम्, अमित्रस्य कुतः सुखम्।'
संक्षेपेण कथितं यत् अलसस्य विद्या नास्ति, धनं नास्ति, मित्रं नास्ति न च सुखमस्ति। दैवः अपि उद्योगिन: पुरुषस्य साहाय्यं करोति। य: प्रयत्नशील: तस्यैव भाग्यं सहायकं भवति। यत: दैवः अपि पुरुषार्थम् अपेक्षते। 'श्रीकृष्णेन यत् कथितं, तत् सर्वविदितमेव कर्मण्येवाधिकारस्ते मा फलेषु कदाचन्।' परिश्रमेण विना कानि अपि कार्याणि न सिद्धयन्ति। अस्मिन् संसारे निसर्गेण दत्ता: बहुविधा: पदार्थाः सन्ति, मानवाः यदि परिश्रमाः न कुर्वन्ति कः तेषाम् उपयोग? महाशक्तिशाली सर्वगुणसंपन्नः पुरूषः अपि परिश्रमेण विना व्यर्थः। उद्योग: उन्नतेः, सन्तुष्टेच साध नमस्ति। अतः स्वस्थजीवनाय, स्वविकासाय, देशविकासाय च परिश्रम: परमावश्यकः नास्त्यत्र कोsपि संदेहः।
COMMENTS