शरीरमाद्यं खलु धर्मसाधनम् संस्कृत निबंध : या शरीरं स्वस्थं तस्य जीवनं सुन्दरम्। शरीरस्य स्वास्थ्यम् अत्यावश्यकम् अस्ति। मानवस्य सर्वाः क्रियाः, सर्व व्यापाराश्च शरीराधीनाः सन्ति। यदि शरीरमस्वस्थं भवति तर्हि सः किमपि कार्य कर्तुं न शक्नोति। अत: मानवेन सर्वप्रथमं स्वास्थ्यरक्षणं कर्तव्यं। आरोग्यं विना जीवनं कोऽर्थः? शरीरसुखं विना वैभवस्यापि को लाभः? अस्वस्थं शरीरे मनः अपि अस्वस्थं भवति, भगवदोपसाने एकाग्रं न भवति।
व्यायाम पर संस्कृत निबंध। Vyayam Essay in Sanskrit
या शरीरं स्वस्थं तस्य जीवनं सुन्दरम्। शरीरस्य स्वास्थ्यम् अत्यावश्यकम् अस्ति। मानवस्य सर्वाः क्रियाः, सर्व व्यापाराश्च शरीराधीनाः सन्ति। यदि शरीरमस्वस्थं भवति तर्हि सः किमपि कार्य कर्तुं न शक्नोति। अत: मानवेन सर्वप्रथमं स्वास्थ्यरक्षणं कर्तव्यं। आरोग्यं विना जीवनं कोऽर्थः? शरीरसुखं विना वैभवस्यापि को लाभः? अस्वस्थं शरीरे मनः अपि अस्वस्थं भवति, भगवदोपसाने एकाग्रं न भवति। मानवः सकलं धर्माचरणमपि शरीरकुशलेन एव शक्नोति। अत: शरीर सम्पतिरेवं श्रेष्ठा सम्पत्तिः। स्वस्थ शरीरं वरदानमेव तथा अस्वस्थं शरीरम् अभिशाप: अस्ति।
स्वस्थ शरीराय नियमितः व्यायाम: आवश्यकः। व्यायामेन शरीर स्वस्थ, निरोग च जायते। शरीरे रुधिरस्य संचारः सम्यक् जायते अत: मानवः उत्साहपूर्णः, उल्लसितः च भवति। सोत्साहेन स्वकार्यं करोति। व्यायामेन सह आहारनियमाः अपि पालनीयाः। अतिभक्षणं सदा वर्जयेत्। न पर्यषितम् अन्नं खादेत्। सात्विक आहारेण शरीर सदैव स्वस्थं भवति। स्वस्थे शरीरे मनः स्थिरं भवति, स्थिरे मनसि सद्विचाराः आगच्छन्ति। व्याधियुक्तं जीवनं पीडादायकं तथा आरोग्यं जीवनमानन्दायकं वर्तते। रूग्णः किमपि कार्यं कर्तुं न शक्नोति, किन्तु स्वस्थेन शरीरेण दुर्लभमपि कार्यं कर्तुं शक्यते। यस्य शरीरं स्वस्थं, स एव सफलतां प्राप्नोति।
धर्म-अर्थ-काम-मोक्षाः चत्वारः पुरुषार्थाः सन्ति। तेषां प्राप्त्यर्थं स्वस्थशरीरमावश्यकम्। अतएव महाकवि कालिदासेन उक्तम्।
‘शरीरमाद्यं खलु धर्मसंसाधनम्’।
COMMENTS