Sampadak ko Patra in Sanskrit : In This article, We are providing संपादक को संस्कृत में पत्र for Students and teachers.
पुस्तक विक्रेता को संस्कृत में पत्र - Pustak Vikreta Ko Patra In Sanskrit
सविधे
मान्यसञ्चालकः
'पल्लवप्रकाशनम्'
'अक्षरम्', बेङ्गलूरु- ८५
'पल्लवप्रकाशनम्'
'अक्षरम्', बेङ्गलूरु- ८५
मान्याः
भवद्भिः प्रकाशितानि कानिचन पुस्तकानि मया दृष्टानि। तानि सर्वाणि संस्कृताध्ययनार्थम् अत्युपयोगीनि सन्ति। अतः भवद्भिः प्रकाशितानां सर्वेषां पुस्तकानाम् एकैकां प्रतिकृतिं वि.पि.पि. द्वारा प्रेषयन्तु। यदि वि.पि.पि. द्वारा पुस्तकप्रेषणव्यवस्था भवतां नास्ति तर्हि पुस्तकानाम् आवलीं, तेषां निमित्तं कियत् धनं प्रेषणीयम् इति विवरणं च प्रेषयन्तु। अहं धनं प्रेषयिष्यामि।
अविलम्बेन भवतां पत्रोत्तरं निरीक्षे।
इति भवदीयः
(..........)