Letter to Doctor in Sanskrit : In This article, We are providing डॉक्टर को संस्कृत में पत्र for Students and teachers.
डॉक्टर को संस्कृत में पत्र। Letter to Doctor in Sanskrit
महाबलेश्वरतः
दि...............
माननीयाः वैद्यमहोदयाः
सादरं प्रणामाः।
भवताम् आदेशानुसारम् इहागतस्य मम पञ्चदशदिनानि जातानि। अत्र अहम संपूर्णत्वेन विश्रातिं लभे। तथा भवतामादेशमनुसृत्यैव च अस्निग्धलघु-आहारम् अहं भुनज्मि। प्रतिदिनं सायंकाले किमपि नेदीयः रमणीयं स्थानं भ्रमणार्थं गच्छामि। मुम्बापुरीस्थाः सर्वाः चिन्ता मया बुध्द्या एव दूरीकृताः। तेन इदानीम अहं सविशेषं सुस्थोऽस्मि।
यदि पुनः अधिकानि पञ्चदशदिनानि अत्र निवत्स्यामि, तर्हि सर्वशः निरामयो बलवान् अपि भविष्यामि इति मे भाति। अतः मे अवकाशविस्तारार्थं कृपया प्रमाणपत्रं प्रेषयित्वा अनुगृह्णन्तु मां भवन्तः। तथा पुष्टिकरम् औषधम् अपि सूचयन्तु भवन्तः पत्रद्वारा। इदानीम् औषधस्य समयः संजातः। अतः अलमिति
भवदीयः
अरुण स्वराज