Sampadak ko Patra in Sanskrit : In This article, We are providing संपादक को संस्कृत में पत्र for Students and teachers.
संपादक को संस्कृत में पत्र - Sampadak ko Patra in Sanskrit
सम्पादकः
'विश्वविजेत्री' पाक्षिकी
वाराणसी
मान्या: सम्पादकाः, सादरं वन्दनानि।
भवतां पत्रिकायां मम कानिचन लेखनानि पूर्वं प्रकटीकृतानि। हार्दान् धन्यवादान् समर्पयामि । एतेन पत्रेण सह 'गुणाः पूजास्थानम्' इति पृष्टद्वयात्मकम् एकं लेखनं प्रेषितम्। तत् सम्यगवलोक्य पत्रिकायां प्रकटीकुर्वन्तु इति सविनयं प्रार्थयामि। लेखने यथोचितं परिवर्तनं परिष्कारं वा कर्तुम् अर्हन्ति भवन्तः।
धन्यवादः
इति विश्वासपात्रम्
.........................