Letter to Brother From sister in Sanskrit : In This article, We are providing बहन द्वारा भाई को संस्कृत में पत्र for Students and teachers.
बहन द्वारा भाई को संस्कृत में पत्र - Letter to Brother From sister in Sanskrit
कानपुर नगरतः
2 जनवरी 2020
प्रियवत्स माधव,
सप्रेम शुभाशीर्वादः च ।
सप्रेम शुभाशीर्वादः च ।
तव पत्रम् प्राप्तम्। अवगतः अर्थश्च। त्वं नवमकक्षायां प्रथमश्रेण्यां प्रथमक्रमाङ्केण उत्तीर्णः इति ज्ञात्वा अतीव संतोषः जातः। हार्दिकमभिनन्दनमस्तु भवतः। तदर्थं पारितोषिकरूपेण रूप्यकशतं मया प्रेषितम् अस्ति। तस्य यथोचितं विनियोगं कर्तुमर्हसि।
इदानीं त्वं दशमकक्षायां प्रविष्टोऽसि। एतत् वर्षं महत्त्वपूर्णमस्ति शैक्षणिकजीवने। अतः एवमेव निरलसो भूत्वा गाढाध्ययनं कृत्वा यशस्वी भव। स्वकुलस्य तथा स्वविद्यालयस्य अपि नाम उज्ज्वलं कुरु। अस्माकं शुभाशिषः च तव कृते नित्यं भवन्त्येव। एवं तावदवधेयम्। अध्ययनकर्मणि अतिव्यापृतोऽपि सन् पत्रद्वारा स्वकुशलं निवेदयितुं मा विस्मर। अत्र सर्वे कुशलिनः। शुभमिति ।
त्वदीया हितैषिणी
.........................
0 comments: