Letter to Daughter in Sanskrit : In This article, We are providing पुत्री को संस्कृत में पत्र for Students and teachers.
पुत्री को संस्कृत में पत्र - Letter to Daughter in Sanskrit
रत्नागिरीतः
दि०
प्रियपुत्री रोहिणि,
शतं शुभानि भूयासुः।
गृहात् मुम्बापुर्यां विद्यालयं गतायाः तव पंचदशदिवसा निर्गताः। तव गमनानंतरं केवलम् एकं पत्रं त्वया प्रेषितम्। तदनन्तरम् एकमपि पत्रं न अधिगतं तव। तेन वयं चिन्ताग्रस्ताः। विशेषतः त्वदीयः पिता भृशम् उदास्ते। जानासि एव तस्य त्वयि अत्युत्कटं प्रेम। तत्र छात्रावासे सम्यक स्थानलाभः जातः न वा तदपि न ज्ञायते।
कदा भविष्यति ते षाष्मासिकी परीक्षा ? तदनन्तरं मासावधिः दीर्घावकाशः भवेत् नु ? परीक्षार्थं प्रथमतः एव सावधानचेतसा अध्ययनं कर्तव्यम्। कदापि वृथा कालक्षेपणं न कर्तव्यम्। तथैव प्रजागरणम् अपि न श्रेयस्करम्। विशेषतया परीक्षाकाले किंचिदपि निशि जागरणं मा कुरु।
त्वरितं पत्रलेखनेन कुशलं ज्ञापय। इहगतं तु सर्व कुशलमेव। शुभमिति।
त्वदीया
शुभाकांक्षिणी
माता
0 comments: