Shok Patra in Sanskrit : In This article, We are providing संस्कृत में शोक पत्र for Students and teachers.
संस्कृत में शोक पत्र - Shok Patra in Sanskrit
प्रियमित्र रमेश!
भवतः पिता दिवङ्गतः इति वार्ता ह्यः श्रुता मया । वार्ता श्रुतवतः ममापि बहु दुःखं जातम्।
'जीवने यावदादानं स्यात प्रदानं ततोऽधिकम्' इति नीतिम् अनुसरन् समाजसेवां बहुधा कृतवान् भवतः पिता। एतादृशस्य भवतः पितुः मरणं मयि एव दुःखम् अजनयत्, किमुत भवत्सु ? तथापि मरणम् अपरिहार्यम् इति वयं जानीमः। भवतः पिता शरीरेण अदृश्य: जातः चेदपि कार्यरूपेण जीवति एव इति भाति मम। तेन य: मार्ग: आरब्धः तम् अनुसरन्तः वयं तदीयं मनोरथं सफलं कुर्याम।
सर्वनियामकः भगवान् दिवं गताय भवतः पित्रे सद्गतिं. भवद्भयः सर्वेभ्यः दुःखसहनशक्तिं च ददातु इति आशासे।
आगामिभानुवासरे अहं तत्र आगमिष्यामि।
इति भवदीयः प्रियवयस्य:
....................................