Letter to Son from Mother in Sanskrit : In This article, We are providing पुत्र को संस्कृत में पत्र for Students and teachers.
Letter to Son from Mother in Sanskrit
मैसूर नगरम्
६.१२.२०१९
आयुष्मत्यै पुत्र्यै शुभाशिषः।
अहम् अत्र कुशलिनी। भवत्याः पिता अपि कुशली अस्ति । भवत्या लिखितं पत्रं प्राप्तम्।
अर्धवार्षिक परीक्षायां भवती प्रथमश्रेण्याम् उत्तीर्णा इति ज्ञातवत्याः मम महान् सन्तोषः जातः । भवत्याः अध्ययनम् अपि सम्यक् प्रचलति इति महतः सन्तोषस्य विषयः । विरामारम्भ-समनन्तरम् एव गृहम् आगच्छतु । विरामसमये वयं सर्वे मिलित्वा बेलूरु, हलेबीडु इत्यादि-स्थानानि द्रष्टुं गच्छाम । किशोर: भवत्याः प्रतीक्षायामेव अस्ति । आहारविषये सर्वदा जागरूकता भवतु । 'शरीरमाद्यं खलु धर्मसाधनम्' इति वाक्यं जानाति किल ! आरोग्यं निर्लक्ष्य मा पठतु । भोजनादिकं समये समये भवतु ।।
अन्यत् सर्वं कुशलम्। पत्रं लिखतु।
इति भवदीया अम्बा
.............................
0 comments: