Letter to brother in sanskrit - भाई को संस्कृत में पत्र
बीकानेरतः
दिनांक : २८-०५-२०१८
प्रिय
अनुज प्रवीणः
शुभाशीर्वादाः।
अत्र कुशलं तत्रास्तु। तव
पत्रम् अद्य एव मया प्राप्तम्। पत्रं पठित्वा सर्वं वृत्तं ज्ञातं, प्रसन्नता च संजाता। त्वम्
संस्कृतविद्यालये आयोजिते संस्कृतसम्भाषणशिविरे भागं गृहीतवान्। एकमासस्य
अभ्यासानन्तरम् अधुना त्वम् संस्कृतसम्भाषणे प्रवीणः अभवः इति अस्माकं कृते
प्रसन्नतायाः विषयः वर्तते। पित्रा उक्तं यत् यदि योग्यताभिवृद्धय्र्थं एतादृशाः
अन्ये अपि कार्यक्रमाः आयोज्यन्ते तर्हि तेषु त्वया पूर्णोत्साहेन भागः गृहीतव्यः।
अध्ययने अपि अवधानं दातव्यम्।
शेषं सर्वं कुशलं। समये-समये
च स्वाध्ययनस्थिति-विषये अवबोधय।
त्वदीयः शुभाकांक्षी
रमेशः
0 comments: