पिता को संस्कृत में पत्र। Letter to Father in Sanskrit
जयपुरतः
दिनांक : २८-०५-२०१८
श्रद्धेयेषु पितृचरणेषु,
सादरं प्रणामाः।
अत्रकुशलं तत्रास्तु। भवदीयं स्नेहापूरितं पत्रं अद्यैव अहम्
प्राप्तवान्। सम्पूर्णं वृत्तं च ज्ञातवान्। अधुना मम वार्षिकी परीक्षा प्रचलति।
परीक्षायाम् इदानीं यावत् सर्वाणि प्रश्नपत्राणि सम्यक् अभवन्। शेषविषयाणां
स्थितिः अपि समीचीना वर्तते। आशासे यत् परीक्षायाम् उत्तमान् अंकात् प्राप्य
कक्षायां श्रेष्ठस्थानं प्राप्स्यामि।
परीक्षानन्तरं शीघ्रमेव गृहम् आगमिष्यामि। पूजनीयेषु मातृचरणेषु मम
प्रणामः कथनीयः। अनुजाय आशीषः।
भवदाज्ञाकारी पुत्रः