विश्व बंधुत्व पर संस्कृत निबंध। Vishwa Bandhutva in Sanskrit. विश्वस्य सर्वान् जनान् प्रति बन्धुत्वस्य भावः एव विश्वबन्धुत्वम् इति कथ्यते। शान्तिमयाय जीवनाय विश्वबन्धुत्वस्य भावना नितरां महत्त्वं भजते। सर्वजनहितं सर्वजनसुखं च बन्धुत्वं विना न सम्भवति। विश्वबन्धुत्वम् एव दृष्टौ निधाय केनापि मनीषिणा निर्दिष्टम् - अयं निजो परोवेति गणना लघुचेतसाम्। उदारचरितानान्तु वसुधैव कुटुम्बकम्। साम्प्रतम् अखिले संसारे अशान्तेः हिंसायाः च साम्राज्यं व्याप्तम् अस्ति। येन साधनसम्पन्नः अपि मानवः सुखस्य स्थाने दुःखमेव अनुभवति। यद्यपि ज्ञानबलेन मानवः इदानीं आकाशे विचरितुं, सागरान् सन्तर्तुं, विश्वभ्रमणं कर्तुं चन्द्रादिग्रहेषु च गन्तुं समर्थः अस्ति, तथापि परस्परं सम्बन्धानां कटुतया च अशान्तः एव दृश्यते। विश्वविगतयोः द्वयोः विश्वयुद्धयोः विनाशलीलां सर्वे जानन्ति एव। इदानीं तृतीयस्य युद्धस्य सम्भावना सर्वदा मानवजातिम् आक्रान्तं करोति। आयुधानाम् अविवेकपूर्णः संग्रहः, नाभिकीयशक्तिः परीक्षणम्, देशानां प्रतिद्वंद्विता च विश्वं नाशं प्रति नयन्ति। अतएव विश्वबन्धुत्वम् अपरिहार्यम्। मानवः मानवं प्रति बन्धुवत् आचरणं कुर्यात्। एकः देशः अन्येन देशेन सह बन्धुतायाः व्यवहारं कुर्यात्।
अयं निजो परोवेति गणना लघुचेतसाम्। उदारचरितानान्तु वसुधैव कुटुम्बकम्।
साम्प्रतम् अखिले संसारे अशान्तेः हिंसायाः च साम्राज्यं व्याप्तम् अस्ति। येन साधनसम्पन्नः अपि मानवः सुखस्य स्थाने दुःखमेव अनुभवति। यद्यपि ज्ञानबलेन मानवः इदानीं आकाशे विचरितुं, सागरान् सन्तर्तुं, विश्वभ्रमणं कर्तुं चन्द्रादिग्रहेषु च गन्तुं समर्थः अस्ति, तथापि परस्परं सम्बन्धानां कटुतया च अशान्तः एव दृश्यते। विश्वविगतयोः द्वयोः विश्वयुद्धयोः विनाशलीलां सर्वे जानन्ति एव। इदानीं तृतीयस्य युद्धस्य सम्भावना सर्वदा मानवजातिम् आक्रान्तं करोति। आयुधानाम् अविवेकपूर्णः संग्रहः, नाभिकीयशक्तिः परीक्षणम्, देशानां प्रतिद्वंद्विता च विश्वं नाशं प्रति नयन्ति। अतएव विश्वबन्धुत्वम् अपरिहार्यम्। मानवः मानवं प्रति बन्धुवत् आचरणं कुर्यात्। एकः देशः अन्येन देशेन सह बन्धुतायाः व्यवहारं कुर्यात्। सबलाः देशाः दुर्बलेषु देशेषु आक्रमणं न कुर्युः। स्वार्थस्य लोलुपतायाः महत्वाकाङ्क्षायाः च स्थाने परस्परं सहयोगस्य प्रसारो भवेत्।
अधुना संसारस्य कतिपयेषु महाद्वीपेषु परस्परं शत्रुतायाः हिंसायाश्च साम्राज्यं व्याप्तमस्ति। अखिलं विश्वं विविधाभिः समस्याभिः पीडितम् अस्ति। जीवने शान्तिः दुर्लभा जाता। कुत्रचित् श्वेताश्वेतयोः कारणात् कलहो वर्तते। कुत्रचित् धर्मभेदः विद्वेषस्य कारणमस्ति। कुत्रचित् तु वर्गभेदः, लिलंगभेदः जातिभेदः वा। स्वार्थाय, अहंकाराय, शक्तिवधर्नाय चापि देशाः संघर्षरताः सन्ति। अनेन मानवः एव मानवहन्ता सञ्जातः।
तथापि शान्तिस्थापनार्थम् अनेके देशाः अनेकाः संस्थाः च प्रयासरताः सन्ति। यथा संयुक्तराष्ट्रसंघः निगुटनिरपेक्षान्दोलनम् जनान्दोलनं च बन्धुत्वं स्थापयितुं सततं प्रयत्नं कुर्वन्ति। इदम् अस्माकमपि दायित्वम् इति स्मरणीयम्। संसारे सर्वेषु मानवेषु समानं रक्तं प्रवहति। सर्वे समानाः सन्ति। अस्माकं कामना अस्ति -
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःख भाग्भवेत्।
Tags:
sanskrit essay 271
Admin

100+ Social Counters
WEEK TRENDING
Loading...
YEAR POPULAR
गम् धातु के रूप संस्कृत में – Gam Dhatu Roop In Sanskrit यहां पढ़ें गम् धातु रूप के पांचो लकार संस्कृत भाषा में। गम् धातु का अर्थ होता है जा...
Riddles in Malayalam Language : In this article, you will get കടങ്കഥകൾ മലയാളം . kadamkathakal malayalam with answer are provided below. T...
अस् धातु के रूप संस्कृत में – As Dhatu Roop In Sanskrit यहां पढ़ें अस् धातु रूप के पांचो लकार संस्कृत भाषा में। अस् धातु का अर्थ होता...
पूस की रात कहानी का सारांश - Poos ki Raat Kahani ka Saransh पूस की रात कहानी का सारांश - 'पूस की रात' कहानी ग्रामीण जीवन से संबंधित ...
Good
Delete