स्वामी विवेकानंद संस्कृत निबंध। Essay on Swami Vivekananda in Sanskrit
आधुनिकभारतस्य
निर्माणकर्तृषु युगपुरुषस्य विवेकानन्दस्य नाम सर्वोपरि अस्ति। सः न केवलं भारते
अपितु सम्पूर्णविश्वे आध्यात्मलोकं विकीर्णयति स्म। तस्य महापुरुषस्य जन्म 1863 तमे
वर्षे अभवत्। विश्वनाथदत्तः तस्य पिता आसीत्। बाल्यकाले विवेकानन्दस्य नाम
नरेंद्रनाथः आसीत्। बाल्यकालादेव सः अति मेधावी आसीत्। आध्यात्मविषये तस्य महती
रुचिः आसीत्।
नरेन्द्रः यदा स्नातकोंSभवत् तदा तस्य पिता परलोकम् अगच्छत्। एकदा एकस्यां सभायां सः
रामकृष्णपरमहंसमहोदयस्य स्पर्शमधिगत्य समाधिस्थोSभवत्। तस्यैव गुरोः
स्पर्शेन च तस्य समाधिः समाप्तोSभवत्।
तस्मात् क्षणादेव नरेन्द्रः तं स्वगुरुम् अमन्यत तपः च आरभत।
1893 तमे वर्षे
अमरीकादेशे 'शिकागो' नामनगरे
विश्वधर्मसम्मेलनमभवत्। तस्मिन् सम्मेलन सः भारतस्य प्रतिनिधित्वम् अकरोत्।
तस्मादेव कालात् तस्य कीर्तिः सर्वत्र प्रासरत्। अनेके जनाः तस्य भक्ताः अभवन्।
विवेकानन्दः लोकसेवायाः उद्देश्यं 'रामकृष्णमिशन' संस्थापयत्।
4 जुलाई 1902 तमे
वर्षे अयं दिव्यपुरुषः पंचतत्वं गतः।
Thankforhelpme
ReplyDeleteDear Reader, Thank you for your lovely comment.
Delete