वेदाङ्गानां महत्त्वम्। वेदांग का महत्व संस्कृत निबंध : वेदार्थावबोधाय तत्स्वराद्यवगमाय तविनियोगज्ञानाय चासीद् महत्यावश्यकता केषांचित् सहायकग्रन्थानाम्। एतदभावपूर्तये एव जनिरभूद् वेदाङ्गानाम् । षडिमानि वेदाङ्गानि। 1. शिक्षा, 2. व्याकरणम्, 3. छन्दः, 4. निरुक्तम्, 5. ज्योतिषम्, 6. कल्पः ।।शिक्षाग्रन्था वर्णोच्चारणविधि विशेषतो वर्णयन्ति। कथं वर्णा चारणीयाः, किं तेषां स्थानम्, कश्च तत्र यत्नः, कण्ठताल्वादीनाम् उच्चारणे किं महत्त्वम्, कति वर्णाः, कथं कायमारुतो वर्णत्वेन विपरिणमते, कति स्थानानि, कति स्वराः, कथं च ते प्रयोज्या इत्यादयो विषयाः शिक्षाग्रन्थेषु विविच्यन्ते।
वेदाङ्गानां महत्त्वम्। वेदांग का महत्व संस्कृत निबंध
वेदार्थावबोधाय तत्स्वराद्यवगमाय तविनियोगज्ञानाय चासीद् महत्यावश्यकता केषांचित् सहायकग्रन्थानाम्। एतदभावपूर्तये एव जनिरभूद् वेदाङ्गानाम् । षडिमानि वेदाङ्गानि। 1. शिक्षा, 2. व्याकरणम्, 3. छन्दः, 4. निरुक्तम्, 5. ज्योतिषम्, 6. कल्पः ।। तथोच्यते--
शिक्षा कल्पो व्याकरणं, निरुक्तं छन्दसां चयः ।
ज्योतिषामयनं चैव, वेदाङ्गानि षडेव तु ॥
षण्णाम् एतेषां महत्त्वं निरीक्ष्यैव पाणिनीयशिक्षायां प्रतिपाद्यते यत्-
छन्दः पादौ तु वेदस्य, हस्तो कल्पोऽथ पठ्यते ।
ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते ॥
शिक्षा प्राणं तु वेदस्य, मुखं व्याकरणं स्मृतम् ।।
तस्मात् साङ्गमधीत्यैव, ब्रह्मलोके महीयते ॥
वेदाङ्गानामेतेषां विवरणं वेदार्थबोधोपयोगिता च समासतोऽत्र प्रस्तूयते ।
SIMILAR ESSAY - वेदानां महत्वं संस्कृत निबंध
(1) शिक्षा - शिक्षाग्रन्था वर्णोच्चारणविधि विशेषतो वर्णयन्ति। कथं वर्णा चारणीयाः, किं तेषां स्थानम्, कश्च तत्र यत्नः, कण्ठताल्वादीनाम् उच्चारणे किं महत्त्वम्, कति वर्णाः, कथं कायमारुतो वर्णत्वेन विपरिणमते, कति स्थानानि, कति स्वराः, कथं च ते प्रयोज्या इत्यादयो विषयाः शिक्षाग्रन्थेषु विविच्यन्ते। सायणेन ऋग्वेदभाष्यभूमिकायो शिक्षालक्षणम् उच्यते यत् स्वरवर्णाधुच्चारणप्रकारो यत्र शिक्ष्यते सा शिक्षा। तैत्तिरीयोपनिषदि शिक्षायाः स्वरूपं निरूप्यते यद्
वर्णः, स्वरः, मात्रा, बलम्, साम, सन्तानः । इत्युक्तः शिक्षाध्यायः ।
एतच्च पाणिनिना मुनिनैवं विव्रियते- वर्ण: अकारादिः, स्वरा:- उदात्तानुदात्त-- स्वरिताः, मात्राः ह्रस्वदीर्घप्लुताः, बलम् स्थानप्रयत्नौ, साम-साम्येन विधिना माधुर्यादि गुणसमन्वित-वर्णोच्चारणम्, सन्तानः-संहितापाठम् अनुसृत्य सन्धिनियमानुकूलं पदप्रयोगः। उच्यते च पाणिनीयशिक्षायाम्
माधुर्यमक्षरव्यक्तिः, पदच्छेदस्तु सुस्वरः ।
धैर्य लयसमर्थं च, षडेते पाठका गुणाः ॥
साम्प्रतम् उपलभ्यमानेषु 32 शिक्षाग्रन्थेषु पाणिनीयशिक्षा प्रमुखा। अन्ये च विशिष्टाः शिक्षाग्रन्थाः सन्ति- याज्ञवल्क्यशिक्षा, व्यासशिक्षा, नारदशिक्षा, माण्डूकीशिक्षा चेति। वर्णोच्चारणादिविधि-ज्ञानम् अन्तरेण न शक्यो वेदानां विशुद्ध: पाठोऽर्थावगमश्चेति। ‘शिक्षा घ्राणं तु वेदस्य' व्याहरता पाणिनिना शिक्षाग्रन्थानां नासिका स्थानीयत्वं स्वीक्रियते।।
(2) व्याकरणम्- व्याकरणे प्रकृति-प्रत्ययस्य विचारः, उदात्तादिस्वरविचार: उदात्तादिस्वरसंचारनियमाः, सन्धिनियमाः, शब्दरूप-धातुरूपादि-निर्माणनियमाः, प्रकृतेः प्रत्यस्य च स्वरूपावधारणं तदर्थनिर्धारणं चेति विविध विषया विविच्यन्ते। वेदेषु प्रकृतिप्रत्यय-विचारस्य स्वरस्य च महन्महत्त्वमिति तत्र व्याकरणमेव साहाय्यम् अनुतिष्ठतीति षडङ्गेषु व्याकरणमेव प्रधानम्। संस्कृतव्याकरणं प्रातिशाख्यमूलकमेव। वेदानां प्रतिशाखाम् आश्रित्य व्याकरणग्रन्था आसन्, ते च प्रातिशाख्यग्रन्था इति प्रसिद्धिम् आप्ता:। साम्प्रतं केचनैव प्रातिशाख्यग्रन्था उपलभ्यन्ते। ते कमप्येकं वेदम् आश्रित्य वर्तन्ते। तद्यथाऋग्वेदस्य शौनकप्रणीतम् ऋक्प्रातिशाख्यम्। एतदेव पार्षदसूत्रम् इत्यप्यभिधीयते। शुक्लयजुर्वेदस्य कात्यायनविरचितं शुक्लयजु:प्रातिशाख्यम्, कृष्णयजुर्वेदस्य तैत्तिरीयप्रातिशाख्यम्। सामवेदस्य सामप्रातिशाख्यं पुष्पसूत्रं वा, पञ्चविधसूत्रं च। अथर्ववेदस्य अथर्वप्रातिशाख्यम्।।
व्याक्रियन्ते विविच्यन्ते शब्दा अनेनेति व्याकरणम् । एतदर्थमेव संस्कृतव्याकरणस्य जनिरभूत्।
संस्कृतव्याकरणावबोधाय महर्षेः पाणिनेः अष्टाध्यायी प्राधान्यं लभते। लौकिकसंस्कृतेन सहैव वैदिकसंस्कृतस्यापि व्याकरणं तत्र प्रस्तूयते। अन्ये प्राचीना व्याकरणग्रन्था लुप्तप्राया एव। पाणिनीयसूत्रेषु कात्यायनेन वार्तिका: पतञ्जलिना च महाभाष्यं विरचितम्। पाणिनि-कात्यायन-पतञ्जलि-इति त्रयं मुनित्रयम् इत्यभिधीयते। तत्र पाणिनेरष्टाध्यायी सर्वाङ्गविभूषितत्वात् सर्वत्रादरं लभते। पतञ्जले: महाभाष्यं च व्याकरणदर्शनस्य मूलम्। अत्र विशदीकृतस्य दार्शनिकभावजातस्य समाश्रयणं विधाय कैयट-नागेश-भर्तृहरि-प्रभृतिभिः व्याकरणदर्शनस्य विकासो व्यधायि। वाक्यपदीयं व्याकरण-दर्शनस्य मूर्धन्यं रत्नम्। संस्कृत-व्याकरण-विषये अन्येऽपि केचन ग्रन्थाः सादरं स्मर्यन्ते। तद्यथा-वामन-जयादित्य-कृता अष्टाध्याय्याः काशिकावृत्तिः, तत्र च। जिनेन्द्रबुद्धिकृतो न्यासग्रन्थः, हरदत्तमिश्रकृता पदमञ्जरी च, भट्टोजिदीक्षितप्रणीताः सिद्धान्तकौमुदी-शब्दकौस्तुभ-प्रौढमनोरमा-ग्रन्थाः, नागेशभट्टकृताः शब्देन्दुशेखरपरिभाषेन्दुशेखर-मञ्जूषा-स्फोटवादादिग्रन्थाः, वरदराजकृता लघुसिद्धान्तकौमुदी मध्यसिद्धान्तकौमुदी च।।
(3) छन्दः - वेदेषु मन्त्रा: प्रायशश्छन्दोबद्धा एव। अतो वृत्तज्ञानाय छन्द:शास्त्रम् अनिवार्यम्। छन्दःशास्त्रविषयको मुख्यो ग्रन्थः पिंगल-प्रणीतं छन्द:सूत्रमेवोपलभ्यते। प्रातिशाख्यग्रन्थेष्वपि वृत्तविचारः प्राप्यते। एभ्य एव लौकिकछन्दोविषयकाणां ग्रन्थानां विकासः समजनि।
(4) निरुक्तम् - निरुक्ते क्लिष्टवैदिकशब्दानां निर्वचनं प्राप्यते। विषयेऽस्मिन् यास्कप्रणीतं निरुक्तमेव प्रमुखो ग्रन्थः। अत्र मन्त्राणां निर्वचनमूलाया व्याख्यायाः प्रथमः प्रयासः समासाद्यते। वैदिकशब्दानां संग्रहात्मको ग्रन्थो निघण्टुरिति कथ्यते। तस्यैव व्याख्यानभूतं निरुक्तमेतत्। यास्को निरुक्ते स्वपूर्ववर्तिनः सप्तदशनिरुक्तकारान् परिगणयति। निरुक्ते काण्डत्रयं नैघण्टुककाण्ड नैगमकाण्डं दैवतकाण्डं चेति। निरुक्तस्य पञ्चविधकार्यत्वम्। उक्तं च-
वर्णागमो वर्णविपर्ययश्च, द्वौ चापरौ वर्णविकारनाशौ ।
धातोस्तदतिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् ।।
(5) ज्योतिषम् - शुभ मुहूर्तम् आश्रित्यैव विशिष्टोऽध्वरः प्रावर्ततेति शुभमुहूर्ताकलनाय ज्योतिषस्योदयोऽभूत्। अत्र सूर्यचन्द्रमसोर्ग्रहाणां नक्षत्राणां च गतिर्निरीक्ष्यते परीक्ष्यते विविच्यते च। सौरमासश्चान्द्रमासश्चोभयं परिगण्यतेऽत्र। मखमुहूर्तनिर्धारणे चान्द्रमासस्य प्राधान्यं लक्ष्यते। विषयेऽस्मिन् आचार्यलगधप्रणीतं वेदाङ्गज्योतिषम् इति ग्रन्थ एव साम्प्रतम् उपलभ्यते। अतीव गूढार्थकोऽयं ग्रन्थः। अद्यावधि न कोऽप्यस्यार्थावधारणे समर्थः। ज्योतिषस्य महत्त्वं तत्रोच्यते-
वेदा हि यज्ञार्थमभिप्रवृत्ताः, कालानुपूर्वा विहिताश्च यज्ञाः ।
तस्मादिदं कालविधानशास्त्र, यो ज्योतिषं वेद स वेद वेदम् ॥
(6) कल्पः- कल्पसूत्रेषु विविधाध्वराणां संस्कारादीनां च वर्णनं प्राप्यते। मन्त्राणां विविधकर्मसु विनियोगश्च तत्र प्रतिपाद्यते। कल्पसूत्राणि चतुर्धा विभज्यन्ते—(क) श्रौतसूत्रम्, (ख) गृह्यसूत्रम्, (ग) धर्मसूत्रम्, (घ) शुल्वसूत्रं च।
(क) श्रौतसूत्रम्प्रतिसूत्रेषु - श्रुतिप्रतिपादितानां सप्त हविर्यज्ञानां सप्त सोमयज्ञानाम् एवं चतुर्दशयज्ञानां विधिर्विनियोगादिकं च प्रतिपाद्यते। तत्र प्रमुखाणि श्रौतसूत्राणि सन्ति- आपस्तम्ब0, मानव0, आश्वलायनश्रौतसूत्रम्, शांखायनश्रौतसूत्रम्, बौधायन0, कात्यायन0, लाट्यायन0, द्राह्मायण0, वैतानश्रौतसूत्रं च। श्रौतसूत्राणीमानि कमप्येक वेदमाश्रित्य वर्तन्ते।
(ख) गृह्यसूत्रम् - गृह्यसूत्रेषु षोडशसंस्काराणां पञ्चमहायज्ञानां सप्तपाकयज्ञानाम् अन्येषां च गृह्यकर्मणां सविशेषं वर्णनम् आप्यते। गृह्यसूत्राण्यपि कमप्येकं वेदम् आश्रित्य वर्तन्ते। तत्र प्रमुखाणि सन्ति-आश्वलायनगृह्यसूत्रम्, पारस्कर0, शांखायन0, बौधायन0, आपस्तम्ब0, मानव0, हिरण्यकेशी0, भारद्वाज0, काठक0, लौगाक्षि0, गोभिल0, जैमिनीय0, खदिरगृह्यसूत्रं चेति।
(ग) धर्मसूत्रम् - धर्मसूत्रेषु मानवानां कर्तव्यं नीतिर्धम रीतयः चतुर्वर्णाश्रमाणां कर्तव्यादिकम्, अन्यच्च सामाजिकनियमादिकं वय॑ते। तत्र प्रमुखा ग्रन्थाः सन्ति बौधायनधर्मसूत्रम्, आपस्तम्ब0, हिरण्यकेशी0, वसिष्ठ0, मानव0, गौतमधर्मसूत्रं च।
(घ) शुल्वसूत्रम् - शुल्वसूत्रेषु यज्ञवेद्या मानादिकं वेदीनिर्माणविध्यादिकं च वय॑ते। तत्र मुख्या ग्रन्थाः सन्तिबौधायनशुल्बसूत्रम्, आपस्तम्ब0, कात्यायन0, मानवशुल्वसूत्रं च।
COMMENTS