दिल्ली पर संस्कृत निबंध। Sanskrit Essay on Delhi
भारतस्य राजधानी दिल्ली नगरमस्ति। यमुना नद्या; दक्षिणे तटे इदं नगरं वर्तते। इदं नगरं पुरा ‘इन्द्रप्रस्थ’ इति नाम्ना प्रसिद्धमासीत्। एतच्च पाण्डवानां राजधानी आसीत्। मुगलकाले अस्य नगरस्य अतीव महत्त्वमासीत्। मुगलराजानः दिल्ली नगरे रक्तदुर्गस्य, जामामस्जिदस्य निर्माणम् अकारयन्। अद्यत्वे अपि रक्तदुर्गात् प्रधानमंत्रमहोदयः स्वतंत्रता दिवसे भाषणं करोति। पुरा भारतस्य राजधानी ‘कोलकाता’ आसीत् किन्तु 1947 तमे ईशवीये यदा देश: स्वतंत्रः अभवत्, तदा स्वतंत्रभारतस्य राजधानी दिल्ली नगरमभवत्। दिल्ली नगरे एव राष्ट्रपति भवनं, सर्वे केन्द्रियाः कार्यालया: सन्ति। दिल्ली नगरे बिरलामन्दिरम, कमलमदिरं, अक्षरधाममदिरं, इत्यादिकानि महत्वपूर्णानि स्थानाननि वतन्ते। अक्षरधाममंदिरं द्रष्टुं प्रतिवर्षम् अनेके पर्यटकाः आगच्छन्ति। संप्रति काले दिल्ली नगरस्य विकासः अभवत्। बहवानां उड्डानपूलानां निर्माणः अभवत्। अतः जनानां यातायातं सुखकरं जातम्। अहं दिल्ली नगरस्य नागरिकोऽस्मि, एतत् मम सौभाग्यम्।
Related Essays :
0 comments: