राष्ट्रीय एकता पर संस्कृत निबंध। Rashtriya Ekta Essay in Sanskrit
भारत देश: एकः विशाल: देशः अस्ति। अत्र विभिन्नानां धर्माणां जनाः स्नेहभावन वसन्ति। उत्तरदिशायां स्थितात् जम्मू-कश्मीरात् कन्याकुमारीपर्यन्तं भारत देशे अनेके प्रान्ताः सन्ति। तत्र विविधा: भाषा: भाषन्ते। जनाः विविधानि वेषानि धारयन्ति। प्रत्येकस्य प्रान्तस्य विशेषता अस्ति। प्रान्तेषु विविधाः उत्सवाः मन्यन्ते। यथा महाराष्ट्र प्रदेशे जनाः गणेशोत्सवं मानयन्ति, तथा बिहारप्रदेशे जनैः ‘छट्पूजा’ मन्यते। किन्तु यदि महाराष्ट्रे कोsपि बिहारी वसति, तदा सोsपि गणपति उत्सवं मानयति। तथा पंजाबे वसन् मराठीजनः अपि ‘वैशाखी’ उत्सवं मानयति। एवं ‘विविधतायामपि एकता’ एषा भारतीय संस्कृतेः विशेषता अस्ति।
भारतः एकः धर्मनिरपेक्ष: देशः अस्ति। ‘हिन्दू-मुस्लिम ऐक्यं’ विश्व प्रसिद्धम अस्ति। हिन्दूजना: मन्दिरं गत्वां ईश्वरं स्मरन्ति, तथा मुस्लिमा: मस्जिदस्य आश्रयं गृह्यन्ति। किन्तु सर्वे भारतीया: एकस्मिन् ईश्वरे विश्वासं कुर्वन्ति। रामः वा रहीमः ईश्वरः तु एकोऽस्ति इति सर्वे: मन्यते। सर्वेषां मनांसि 'अहं भारतीयोऽस्मि' इत्येका भावना अस्ति। इयमेव भावना देशस्य हिताय भवति। यदि सर्वे भारतीयाः एकत्री भवन्ति तर्हि परकीयानाम् आक्रमणं कदापि न भवेत्।
भौगोलिकदृष्ट्या अस्माकं देश: विविधपूर्णः अस्ति। कतिपयेषु प्रान्तेषु पर्वताः सन्ति, कतिपयाः प्रान्ताः समतलाः सन्ति। अतः सर्वत्र जलवायुः विभिन्नः अस्ति। सर्वेषां प्रान्तानां जनरीतिः अपि विभिन्नाः अस्ति। किन्तु सर्वप्रान्तीयाः जनाः परस्परं स्नेहन वसन्ति। शासनः अपि कास्मिन्नपि धर्मे पक्षपात: न करोति। अस्माकं देशः धर्मनिरपेक्षताया: एकम् आदर्शम् धर्मानुसारं भेदभावः दृश्यते, किन्तु अस्मार्क देशः सर्वधर्मीयान् स्वीकरोति।
अस्माकं देशवासिभिः एकतायाः महत्त्वं सम्यक् ज्ञातम्। धर्मप्राधान्यमेव भारतीयसंस्कृते: वैशिष्ट्यम्। अत: परस्परैः कलहं न कुर्वन् सर्वे: मिलित्वा वसेयुः। यतः राष्ट्रीय एकता देशहिताय एव भवति इति मन्ये।
0 comments: