Satsangati Essay in Sanskrit सत्संगति पर संस्कृत निबंध : सतां-सज्जनानां सम्पर्क: संङ्गतिः वा सत्संगति कथ्यते। संङ्गतिः द्विविध भवति। सत्संगतिः कुसंगतिश्च। दुर्जनानां सम्पर्क संसर्गी वा कुसङ्गातिरित्युच्यते। जीवने यादृशी संङ्गतिः प्राप्यते तादृशं जीवनं भवति। जीवनस्य सफलतायै सत्संगतिः अतीव महत्त्वपूर्णा अस्ति। मनुष्यः सामाजिकः प्राणि अस्ति। स एकाकी उषितुं न शक्नोति। सः समाजे वसति अत: विविधस्वभावनां मनुष्याणां सम्पर्के आयाति। संङ्गत्याः तस्योपरि महान् प्रभावः भवति। बाल्यादेव सङ्गत्याः परिणाम: दृश्यते। बालकेषु संङ्गते: प्रभावः शीघ्रं भवति यतः बालकाः अनुकरणशीलाः सन्ति।
Satsangati Essay in Sanskrit सत्संगति पर संस्कृत निबंध
सतां-सज्जनानां सम्पर्क: संङ्गतिः वा सत्संगति कथ्यते। संङ्गतिः द्विविध भवति। सत्संगतिः कुसंगतिश्च। दुर्जनानां सम्पर्क संसर्गी वा कुसङ्गातिरित्युच्यते। जीवने यादृशी संङ्गतिः प्राप्यते तादृशं जीवनं भवति। जीवनस्य सफलतायै सत्संगतिः अतीव महत्त्वपूर्णा अस्ति।
मनुष्यः सामाजिकः प्राणि अस्ति। स एकाकी उषितुं न शक्नोति। सः समाजे वसति अत: विविधस्वभावनां मनुष्याणां सम्पर्के आयाति। संङ्गत्याः तस्योपरि महान् प्रभावः भवति। बाल्यादेव सङ्गत्याः परिणाम: दृश्यते। बालकेषु संङ्गते: प्रभावः शीघ्रं भवति यतः बालकाः अनुकरणशीलाः सन्ति। ते समीपवर्तिनाम् अनुकरणं शीघ्रं कुर्वन्ति। तत एव ते समुन्नतिं प्राप्नुवन्ति अन्यथा अवनतिं गच्छन्ति, गुणशालिन: भवन्ति दुर्गुणवासिनः भवन्ति वा।
सत्संगतिः मानवस्य उन्नत्यै अतीव आवश्यकी। संत्संगत्या निर्गणोऽपि सगुणः भवति। अधर्मात्मा अपि धर्मशीलः पापी अपि पुण्यवान् भवति। सत्संगतिप्रभावन् साधारणोऽपि प्राणी महान भवति। यथावाल्मीकिः नारदस्य प्रभावान् महर्षिः आदिकविः अभवन् तथा रामायणं नाम महाकाव्यम् अरचयत। एवं सत्संगतिः दुःसाध्यं साध्यं करोति। सत्संगत्याः महत्वम् एकस्मिन् सुभाषिते सुष्ठु कथितं यत्-
‘जाड्यं धियो हरति सिंचति वाचि सत्यं
मानोन्नीतम् दिशति पापमपाकरोति।‘
चेत: प्रसादयति दिक्षुः तनोति कीर्तिं
सत्संगतिः कथय किं न करोति पुंसाम्’।।
तथा अन्यस्मिन् सुभाषिते उक्तं, कीटोऽपि सुमनसंगात् सतां शिरः आरोहति, सज्जनै: सुप्रतिष्ठिनः अश्मापि देवत्वं याति, तथा दुर्जनः अपि सत्संगात् सज्जनो भवति। यथा चन्दनवृक्ष: शीतलतां यच्छति तथा सत्संगति: मन:शान्तिं प्रयच्छति।
सत्संगत्या अनेके लाभाः सन्ति तथा कुसंगत्या अनेकाः हानयः भवन्ति। कुसंगात् मानवस्य बुद्धिनैश्यते, मानव: व्यसनानाम् अधीनो जायते। स: कत्रापि संमानं न लभते।
अतः जीवने मन:शान्तिं प्राप्तुं, तथा आत्मकल्याणाय निजसुखाय च सत्संगतिरेव सेव्या, कुसंगतिः च हेया।
COMMENTS