भगवान बुद्ध पर संस्कृत निबंध। mahatma buddha in sanskrit : अद्यप्रभृति 2500 वर्षे पूर्व भारते वर्षे कपिलवस्तु नगरे अयं महात्मा प्रादुर्बभूव।। अस्य पिता राजा शुद्धोदनः आसीत् तथा अस्य मातुः नाम 'मायादेवी' आसीत्। शिशुकाले स्वमाता मायादेवी पंचत्वं गता। शैशवादेव सः गम्भीरः, विरक्तमनः आसीत्। भौतिकपदार्थेषु, विलासोपकरणेषु अस्य मन: न रमते स्म। परं स: विविध पारङ्गतः आसीत्। षोडसे वर्षे अस्य विवाहः यशोधरा' नाम कन्यया सह अभवत्। तयो: राहुल: नामकः पुत्रः अजायत्। किन्तु तस्य मन: राज्यकार्येषु न अरमत्।
भगवान बुद्ध पर संस्कृत निबंध। Mahatma Buddha in Sanskrit
अद्यप्रभृति 2500 वर्षे पूर्व भारते वर्षे कपिलवस्तु नगरे अयं महात्मा प्रादुर्बभूव।। अस्य पिता राजा शुद्धोदनः आसीत् तथा अस्य मातुः नाम 'मायादेवी' आसीत्। शिशुकाले स्वमाता मायादेवी पंचत्वं गता। शैशवादेव सः गम्भीरः, विरक्तमनः आसीत्। भौतिकपदार्थेषु, विलासोपकरणेषु अस्य मन: न रमते स्म। परं स: विविध पारङ्गतः आसीत्। षोडसे वर्षे अस्य विवाहः यशोधरा' नाम कन्यया सह अभवत्। तयो: राहुल: नामकः पुत्रः अजायत्। किन्तु तस्य मन: राज्यकार्येषु न अरमत्। एकदा तेन मार्गे एक: वृद्ध: एकोरोगग्रस्त: तथा मृतो पुरुषश्च दृष्ट: तस्मात् स: अतिविरिक्तो जात:। तदैव तेन गृहत्याग संकल्पो कृतः। एकस्यां रात्रौ सुप्तां यशोधरां, राहुलं च त्यक्त्वा गृहात् निर्गतः। ‘महाभिनिष्क्रमणाय' निर्गतोऽयं श्रमणवेशं धारयित्वा स्थानात् स्थानं भ्रमन् बोधगयामगच्छत्। तत्र च षटवर्षाणि तपस्तेपे। तत्रैव वरमूले स: ‘महाबोधं प्राप्तवान्। ततः सः ‘बुद्ध' इतिनाम्ना विख्यात जातः।
अस्य धर्मोपदेशः अतीव सरल:। अस्य प्रमुख: सिद्धांतः आसीत् ‘अहिंसा परमो धर्म:'। धर्मप्रचाराय, मानवानां दुख निवारणाय च सः वाराणसीं प्रस्थितः। तत्पश्चात् सकले उत्तरभारते परिभ्रमन् धर्मोपदेशः कृतः। बौद्धधर्मस्य प्रसारः कृतः।
बौद्धधर्मः आचारप्रधानः अस्ति। सत्कर्म, अहिंसा, दय, ईदृशः सरलः सुकरः च सिद्धांतः अस्य धर्मस्य। भगनता बुद्धेन ‘पशुहत्या’ सदैव खण्डिता। तेन वर्णाश्रम व्यवस्थायाः प्रथिषेधः कृतः।
निजसिद्धान्तानां प्रचारस्य, बौद्धधर्मस्य प्रसाराय च स्थाने स्थाने विहारसंघानां निर्माणम् अभवत्। अनेके ब्राह्मणाः, श्रेष्ठिन:, राजानः बौद्धधर्मशरणम् उपागच्छन्। राज्ञा अशोकेन अपि बौद्ध-धर्मः स्वीकृतः इति सर्वविदितम्।
भगवतः बुद्धस्य उपदेशेन निखिले संसारे शांतिः अहिंसा, मैत्री च संजाता अतएव अयं महात्मा न केवलं भारतीयानां, अपितु तु समस्तजगत: वन्दनीयः अस्ति।
COMMENTS