मुखं व्याकरणं स्मृतम् संस्कृत निबंध : व्याक्रियन्ते विविच्यन्ते प्रकृतिप्रत्ययादयो यत्र तद् व्याकरणम् इति व्युत्पत्तिम् आश्रित्य व्याकरणं शब्दशास्त्रं नाम। व्याकरणे हि प्रकृतिप्रत्ययादीनां सूक्ष्मातिसूक्ष्म विवेचनं प्रस्तूयते। विवेचनमेव व्याकरणस्य मुख्यार्थ:। प्रकृतिप्रत्यययोः, ध्वनिस्फोटयोः, शब्दापशब्दयोः, आकृतिद्रव्ययोः, शब्दनित्यतानित्यतयोः, पदवाक्ययोः, पदपदार्थयोः, वाक्यवाक्यार्थयो: विवेचनं विश्लेषणं च व्याकरणस्य प्रयोजकत्वेनास्थीयते।
मुखं व्याकरणं स्मृतम् संस्कृत निबंध
व्याकरणशब्दार्थ: - व्याक्रियन्ते विविच्यन्ते प्रकृतिप्रत्ययादयो यत्र तद् व्याकरणम् इति व्युत्पत्तिम् आश्रित्य व्याकरणं शब्दशास्त्रं नाम। व्याकरणे हि प्रकृतिप्रत्ययादीनां सूक्ष्मातिसूक्ष्म विवेचनं प्रस्तूयते। विवेचनमेव व्याकरणस्य मुख्यार्थ:। प्रकृतिप्रत्यययोः, ध्वनिस्फोटयोः, शब्दापशब्दयोः, आकृतिद्रव्ययोः, शब्दनित्यतानित्यतयोः, पदवाक्ययोः, पदपदार्थयोः, वाक्यवाक्यार्थयो: विवेचनं विश्लेषणं च व्याकरणस्य प्रयोजकत्वेनास्थीयते।
व्याकरणस्य प्रयोजनम् - भगवता पतञ्जलिना व्याकरणस्य पञ्च प्रयोजनानि उपस्थाप्यन्ते । तद्यथा---
रक्षोहागमलध्वसन्देहाः प्रयोजनम्। (महाभाष्य, आ० 1)
वेदानां रक्षार्थम्, ऊहार्थम् अर्थात् यथास्थानम् उचितशब्दप्रयोगार्थम्, शास्त्रज्ञापालनार्थम्, लघ्वर्थम्, असन्देहार्थं च व्याकरणाध्ययनम् अनिवार्यम् । शास्त्राज्ञामनुवदता पतञ्जलिना प्रोच्यते-
ब्राह्मणेन निष्कारणो धर्म: षडङ्गो वेदोऽध्येयो ज्ञेयश्च।।
प्रधानं च षडङ्गेषु व्याकरणम्। (महाभाष्य, आ० 1)
एवं पतञ्जलिना व्याकरणाध्ययनस्योपयोगित्वं षडङ्गेषु व्याकरणस्य मुख्यत्वे व प्रतिपाद्यते ।।
व्याकरणस्य महत्त्वम् - वर्णोच्चारणज्ञानम् अन्तरेण न वैदुष्यं न च शास्त्रज्ञत्वं प्राप्तुं शक्यते। वर्णोच्चारणज्ञानम्, शब्दापशब्दज्ञानम्, प्रकृति-प्रत्ययज्ञानम्, विविधशब्दनिर्माण प्रक्रियाज्ञानं च व्याकरणेनैव अवातुं शक्यते, अत: आबालवृद्ध व्याकरणस्य महत्त्वम्। व्याकरणाद् ऋते शुद्धशब्दज्ञानं परिष्कृतशब्दप्रयोगश्च न संभाव्यते। अतएव एकस्यापि शुद्धस्य शब्दस्य ज्ञानं सुप्रयोगश्च स्वर्ग लोके कामधुकत्वेन प्रशस्यते पतञ्जलिना-
एकः शब्दः सम्यग् ज्ञातः सुप्रयुक्तः स्वर्गे लोके च कामधुग भवति।
भगवता भर्तृहरिणा साधुत्वज्ञानविषया सैषा व्याकरणस्मृतिः' (वाक्यपदीय) इति निर्दिशता साधुत्वज्ञानार्थं व्याकरणस्यानिवार्यत्वम् उपदिश्यते।
यजुर्वेदे ‘दृष्ट्वा रूपे व्याकरोत् सत्यानृते प्रजापतिः' (यजु० 19.77) इति मन्त्रेण सत्यासत्य-विवेचनमपि व्याकरणशब्देन समर्थ्यते। काव्यादर्शे महाकवेदण्डिनः सत्यमिदं वचनं यद् यदि शब्दनामक ज्योतिर्भुवने न दीप्येत तर्हि जगदिदम् अन्धन्तम: स्यात्-
इदमन्धन्तमः कृत्स्नं जायेत भुवनत्रयम् ।
यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्यते ।।
शुद्धशब्दज्ञानार्थ शुद्धशब्दप्रयोगार्थं च व्याकरणज्ञानस्यानिवार्यता सर्वेरेव संस्तूयते ।। अतः साधुच्यते
यद्यपि बहु नाधीषे, तथापि पठ पुत्र व्याकरणम् ।
स्वजनः श्वजनो मा भूत्, सकलं शकले सकृत् शकृत् ॥
साधुशब्दज्ञानं विना, वर्णोच्चारणज्ञानमन्तरेण च सकारशकारयोर्भेदो न ज्ञायेत। एवं सति ‘सकृद् भुड्ग्क्ते’ एकवारं भुड्ग्क्ते, इत्यर्थकं वाक्यं ‘शकृद् भुते' मलं भुते, इत्यर्थक स्यात्। एवमेव स्वजन: (स्वकीयो जनः) श्वजन: (कुकुरवर्ग:) भविष्यति, सकलं (समग्रम्) च शकलम् (अर्धाशः)।
व्याकरणस्य वेदांगत्वम् - वेदानां साधु ज्ञानार्थं षण्णां वेदाङ्गानां ज्ञानम् अनिवार्यम् । षड् वेदाङ्गानि निर्दिश्यन्ते-
शिक्षा कल्पो व्याकरणं, निरुक्तं छन्दसां चयः ।
ज्योतिषामयनं चैव, वेदाङ्गानि षडेव तु ॥
प्रत्येकस्य वेदाङ्गस्योपयोगिताम् आश्रित्य वेदस्य शरीरावयवरूपेण तस्य उच्चावचं महत्त्वं प्रदर्शयता प्रोच्यते-
छन्दः पादौ तु वेदस्य, हस्तौ कल्पोऽथ पठ्यते ।
ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते ॥
शिक्षा प्राणं तु वेदस्य, मुखं व्याकरणं स्मृतम् ।।
तस्मात् साङ्गमधीत्यैव, ब्रह्मलोके महीयते ।।
अत्र ‘मुख व्याकरणं स्मृतम्' इति उद्घोषयता शिक्षाकारेण षडङ्गेषु व्याकरणस्य मुख्यत्वं प्रतिपाद्यते। महर्षिणा पतञ्जलिनाऽपि एतदेव व्यादिश्यते-‘प्रधानं च षडङ्गेषु व्याकरणम्'।
व्याकरणस्य मुखत्वं मुख्यत्वं च - व्याकरणं वेदाङ्गेषु मुखत्वेन उररीक्रियते। शब्दाधीनं जगत्, शब्दश्च मुखेनोच्चारणीयः, अतः तत्साधनत्वेन व्याकरणमपि शब्दब्रह्मणो मुखरूपम् अस्ति। यथा मुखं सौन्दर्यार्थकं तथैव व्याकरणमपि भाषायाः साधुत्वप्रतिपादनेन सौन्दयधायकम्, मुखं भाषणसाधनं तथैव व्याकरणमपि परिष्कृतशब्दप्रयोगसाधनम्। व्याकरेणमेव शब्दप्रकाशनेन स्वमनोगतभावाविर्भावकम् अन्तर्निहितविचारप्रसारक व्याकरणमेव ज्ञानज्योतिश्चास्ति। यथा शरीरावयवेषु मुखस्योत्कृष्टत्वं न केनाप्याक्षिप्यते, तथैव भाषातत्त्वविवेचनेन शब्दज्ञानमूलकत्वेन शब्दशास्त्रावगाहनेन वाक्यतत्त्वविवेचनेन शब्दब्रह्मस्वरूप-प्रकाशनेन व्याकरणस्य शास्त्रेषु सर्वोत्कृष्टत्वं न केनापि व्याक्षेप्तुं पार्यते।
समग्रस्यापि ज्ञानस्य शब्दविवेचनमूलत्वात् तत्साधनत्वाच्च व्याकरणस्य मुख्यत्वं निर्विवादम्- ‘अवैयाकरणस्त्वन्ध एव' इति वचनमपि न संशयलेशम् आवहति। व्याकरणमन्तरेण शब्दतत्त्वज्ञानाभावेन मानवस्यान्धवम् आपद्यते। अतो व्याकरणस्य सर्वशास्त्रेषु मुख्यत्वं ज्ञायते।
व्याकरणस्यानिवार्यत्वम् - स्वर-वर्णोच्चारणज्ञानमन्तरेण शब्दस्य अर्थबोधनस्थाने अनर्थबोधकत्वं स्यात्। वेदेषु विशेषतः स्वरज्ञानस्य शुद्धप्रयोगस्य च नितरां महत्त्वं प्रतिपाद्यते। स्वरस्य अन्यथा उच्चारणेन ‘इन्द्रशत्रुर्वर्धस्व' इति वृत्रासुरविजयार्थं पठितोऽपि मन्त्रः तत्पुरुषेऽन्तोदात्ते प्रयोक्तव्ये इन्द्र: शत्रुः नाशयिता अस्य इति बहुव्रीहौ आद्युदात्ते प्रयुक्ते इन्द्र एव वृत्रस्य संहत समभवत्। एवम् इन्द्रविजयस्य स्थाने वृत्रवध एव संवृत्तः। अशुद्धोच्चारणस्य असाधुशब्दप्रयोगस्य च एष एव दु:खदो दुष्परिणामो जायते। उक्तं च
मन्त्रो हीनः स्वरतो वर्णतो वा, मिथ्याप्रयुक्तो न तमर्थमाह।
स वाग्वज्रो यजमानं हिनस्ति, यथेन्द्रशत्रुः स्वरतोऽपराधात् ।।
एतेन साधुशब्दज्ञानार्थं शुद्धशब्दप्रयोगार्थं च व्याकरणज्ञानम् अनिवार्यम्।व्याकरणशास्त्रस्य विशालत्वम् - पुरा व्याकरणस्य तादृशं महत्त्वम् आसीद् यद् व्याकरणम् अष्टप्रभेदं प्रथितम् आसीत्। तद्यथा
ब्राह्ममैशानमैन्द्रं च, प्राजापत्यं बृहस्पतिम् ।।
त्वाष्टमापिशलं चेति, पाणिनीयमथाष्टमम् ।। (हैम-बृहद्वृत्त्यवचूर्ण)
पाणिनि-पूर्ववर्तिनां 85 वैयाकरणानाम् उल्लेखः प्राप्यते। पाणिनिना स्वीये व्याकरणे गाग्र्य-शाकटायन-स्फोटानादीनां दशाचार्याणाम् उल्लेखो विहितः। पाणिनि परवर्तिषु वैयाकरणेषु कात्यायन-पतञ्जलि-वामनभर्तृहरि-कैयट-भट्ठोजिदीक्षित-नागेशवरदराजादीनां वैयाकरणानां व्याकरणविषये विशिष्ट योगदानं वर्तते।
व्याकरणस्य परमपावनत्वम् - ‘यन्मनसा ध्यायति तद् वाचा वदति, यद् वाचा वदति तत् कर्मणा करोति, यत् कर्मणा करोति तदभिसंपद्यते' इति सिद्धान्तमाश्रित्य मानवजीवनशुद्धयर्थ भावशुद्धिः शब्दशुद्धिश्च नितराम् आवश्यकी। शब्दशुद्धिश्च व्याकरणेनैव संभाव्यते। अतएव व्याकरणस्य परमपावनत्वम् अङ्गीक्रियते। एतद्भावात्मकमेवैतद् उच्यते-
तेषां हि सामग्र्यजुषां पवित्रं, महर्षयो व्याकरणं निराहुः।
व्याकरणं न केवलं भावशुद्धिसाधनमेव, अपि तु शब्दब्रह्मशोधक शब्दब्रह्मावाप्तिसाधनं च वर्तते। अतएव ऋग्वेदे वण्र्यते यद् यो वाक्तत्त्वं सर्वथा पश्यति, वाक्तत्त्वमपि तस्मै स्वीयं रूपं प्रकटयति-
उत त्वः पश्यन् न ददर्श वाचम्, उत त्वः शृण्वन्न शृणोत्येनाम् ।
उतो त्वस्मै तन्वं विसत्रे, जायेव पत्य उशती सुवासाः ।।
अतएव भगवता भर्तृहरिणा शब्दसंस्कारः शब्दब्रह्मप्राप्तिसाधनत्वेन निरूप्यते-
तस्माद् यः शब्दसंस्कारः, सा सिद्धिः परमात्मनः ।
तस्य प्रवृत्तितत्त्वज्ञस्तद् ब्रह्मामृतमश्नुते ॥
वाक्यपदीये शब्दतत्त्वस्य महत्त्व प्रतिपादयता तेनोच्यते यत् शब्द एव विश्वस्यास्य निबन्धनं संयोजकश्चास्ति। शब्द एव नेत्ररूपः सन् जगदिदं द्योतयति-
शब्देष्वेवाश्रिता शक्तिविश्वस्यास्य निबन्धनी ।।
यन्नेत्रः प्रतिभात्माऽयं, भेदरूपः प्रतीयते ॥
शब्दस्य ज्ञानाश्रयत्वेन शब्दज्ञानयोः परस्परान्वयित्वं निर्णीयते । उक्तं च-
न सोऽस्ति प्रत्ययो लोके, यः शब्दानुगमाद् ऋते ।
अनुविद्धमिव ज्ञान, सर्व शब्देन भासते ।।
व्याकरणस्य परमवैदुष्याधायकत्वम् - न केवलं तत्त्वज्ञैरेव व्याकरणं प्रशस्यते, अपि तु विविधशास्त्रपारदृश्वभर्विद्वत्तल्लजैरपि इदम् अभिनन्द्यते। काव्यशास्त्रतत्त्वज्ञमूर्धन्यः काव्यप्रकाशकारो मम्मटो वैयाकरणानां तत्त्वज्ञता प्रतिपादयन् अभिधत्ते-
बुधवयाकरणः प्रधानभूतस्फोट-व्यङ्ग्यव्यञ्जकस्य शब्दस्य ध्वनिरिति व्यवहारः कृतः। (काव्यप्रकाश, उच्छ्वास 1)
वैयाकरणै: शब्दब्रह्मरूप - व्यङ्ग्य-स्फोट-व्यञ्जकस्य ध्वनिरिति नाम व्यवहियते। नवकाव्यजानां सर्वस्वम्। अतएव आनन्दवर्धनाचार्यादिभिः ध्वनिकाव्यस्योकृष्टत्वं समर्थ्यते प्रतिपाद्यते च। विविधा दार्शनिकाः भाषाशास्त्रज्ञाः, अन्ये च सूरया व्याकरणशास्त्रस्य महत्त्वम् उद्घोषयन्ति, तज्ज्ञाने चानिवार्यत्वेन प्रतिपादयन्ति। अत एतद् वचनं न विप्रतिपतिलेशमयावहति यद्-
अवैयाकरणस्त्वन्ध एव।
COMMENTS