Monday, 22 October 2018

अहिंसा परमो धर्मः पर संस्कृत निबंध। Ahimsa Paramo Dharma Essay in Sanskrit

अहिंसा परमो धर्मः पर संस्कृत निबंध। Ahimsa Paramo Dharma Essay in Sanskrit

Ahimsa Paramo Dharma Essay in Sanskrit
संसारे यदि मनुष्यः सुखं वाञ्छति, तदा तेन सर्वभावेन अहिंसा पालनीया। अहिंसाम् आश्रित्य एव सःस्वयं सुखं प्राप्नोति तथा सर्वेभ्यः सुखं ददाति च। हिंसाय: अर्थ: न केवलं हननं, किन्तु परपीडनं, परदुःखप्रदानमपि हिंसा एव। हिंसा त्रिविधा वर्तते। मनसा, वाचा, कर्मणा च कृतं हिंसनं हिंसा भवति। परेषाम् अहितचिन्तमपि हिंसा वर्तते। अतः एतासा हिंसानां त्यागः'अहिंसा' इति उच्यते।

यदि अहिंसायाः पालनं सर्वे मानवाः कुर्युः तदा सम्पूर्ण विश्व शान्तिः भवेत्। सम्प्रति कलियुगे अनेके जना: मांसाहारं कुर्वन्ति। प्राणिनां हत्यां कृत्वा ते मांसभक्षणं कुर्वन्ति एतत् महत्पापं। जनाः गवदिनां पशूनाम् अपि हननं कुर्वन्ति। धेनवः तु देवसदृशाः सन्ति। तेषां हननं कदापि उचितं नास्ति। पशवः अहिंसया वशीभूताः भवन्ति। अहिंसामार्गेण रिपव; अपि मित्राणि भवन्ति।

राष्ट्रपिता महात्मा गांधी महोदय: अहिंसादूत: आसीत्। अहिंसामार्गमनुसरन् सः जनेभ्यः अपि अहिंसायाः उपदेशः प्रायच्छत्। सः अहिंसामाश्रित्य एव आंग्लशासकान् अस्माकं देशात् नि:सारितवान्।
हिंसया किमपि साधयितुं न शक्यते। हिंसा कस्यचिदपि रोगस्य निदानं नास्ति। हिंसया हिंसा प्रवर्धते। जनेषु शत्रुभावना विकसित। भगवान बुद्धः भगवान महावीरः एतौ: अहिंसा प्रवर्तकौ आस्ताम्। भगवता महावीरेण सर्वेभ्य: अहिंसा संदेश: दत्तः। राजा अशोकः अपि युद्धस्य पश्चात्, पश्चात्तापदग्धः अहिंसा मार्ग: अनुसरितवान्।

सम्प्रति वैज्ञानिके युगे शस्त्राणाम् आविष्कारः भूत: किन्तु तेषाम् आविष्कारेण हिंसा एव प्रवर्धते। विनाशकैः शस्त्रैः निर्दोषप्राणिनामापि हिंसा भवति। अमेरिका इराकदेशयोः मध्ये महायुद्ध जातम्। तत्र अनेके निर्दोषः जनाः हताः युद्धेन किमपि न साध्यते। अहिंसया एव विश्वशान्तिः भवति। अतः सर्वे: अहिंसामार्गः एव अनुसरणीयः। अहिंसापरायणः मानवः सर्वत्र सुखं लभते। यत्र अहिंसा भवति, तत्र सत्य, त्याग, तपस्या, प्रेम, पवित्रतादयः सद्भावनाः वसन्ति। अतः 'अहिंसा परमो धर्मः' इति सर्वः स्वीकृतः। सत्यमुच्यते यत्,
“न पापं हिंसात्ः परम्।
न धर्मः अहिंसात् परम्।“

SHARE THIS

Author:

I am writing to express my concern over the Hindi Language. I have iven my views and thoughts about Hindi Language. Hindivyakran.com contains a large number of hindi litracy articles.

0 comments: