भगवान श्रीकृष्णः संस्कृत निबंध। Lord Krishna Essay in Sanskrit : भारतीयसंस्कृत्या; अयम् एकः ऐतहासिकः महापुरुषः अस्ति। यदुकुले जात: श्रीकृष्ण: वासुदेवदेवक्योः पुत्रः। वसुदेवस्य पुत्रः अतः अयं वासुदेवः इत्यपि कथ्यते। देवक्या: अयम् अष्टमः पुत्रः आसीत्। यदा अयं भाद्रपदमासस्य कृष्णपक्षे अष्टम्यां तिथौ मथुरायां कारागारे जात्, तदा तस्य पिता वासुदेव: रात्रौ एनम् आदाय यमुनाम् उत्तीर्य गोकुलम् अगच्छत्। तदैव गोकुले नन्दस्य धर्मपत्नी यशोदा कन्याम् अजीननत्।
भगवान श्रीकृष्णः संस्कृत निबंध। Lord Krishna Essay in Sanskrit
भारतीयसंस्कृत्या; अयम् एकः ऐतहासिकः महापुरुषः अस्ति। यदुकुले जात: श्रीकृष्ण: वासुदेवदेवक्योः पुत्रः। वसुदेवस्य पुत्रः अतः अयं वासुदेवः इत्यपि कथ्यते। देवक्या: अयम् अष्टमः पुत्रः आसीत्। यदा अयं भाद्रपदमासस्य कृष्णपक्षे अष्टम्यां तिथौ मथुरायां कारागारे जात्, तदा तस्य पिता वासुदेव: रात्रौ एनम् आदाय यमुनाम् उत्तीर्य गोकुलम् अगच्छत्। तदैव गोकुले नन्दस्य धर्मपत्नी यशोदा कन्याम् अजीननत्। वसुदेव: स्वपुत्रं नन्दाय दत्त्वा तस्य कन्यां गृहीत्वा कारागारं प्रत्यागच्छत्। गोकुले यशोदानन्दौ श्रीकृष्णम् अतिस्नेहेन अपालयताम्।
श्रीकृष्णाय दुग्धं, दधि, नवनीतं च अतीव रोचते स्म। स: बाल्यकालात् एव पराक्रमी आसीत्। यमुनाया: जलं कालिया नाम कृष्णसर्पेन विषयुक्तं कृतम्। तं हत्वा श्री कृष्णेन जलं निर्मलं कृतम्। तस्य पराक्रमस्य अद्भूतानि कार्याणि प्रसिद्धानि सन्ति। तेन एकस्याम् अङ्गल्यां गोवर्धनपर्वत: घृतः इति कथ्यते। सः स्वमातुलं कंसं हत्वा स्वपितरौ कारागृहात् अमुञ्चताम्।
महाभारते, पुराणे च एतत्कथितं यत् श्रीकृष्णः शक्तिशाली, योद्धा आसीत् तथा स: रणनीतिज्ञः, शासनकुशल: विविधकलाभिज्ञ: च आसीत्।
महाभारत युद्धे अस्य महत्त्वपूर्ण योगदानम् आसीत्। कौरवपाण्डवयो: मध्ये अनेन पाण्डवानां नेतृत्वं कृतम्। युद्धे पाण्डवानां विजयः च जात:।
युद्धसमये विषादप्राप्ते अर्जुने श्रीकृष्णः कर्मयोगम् उपादिशत्। 'कर्मण्येव अधिकारस्ते मा फलेषु कदाचन', 'स्वधर्मे निधनं श्रेयः, परधर्मो भयावहः' इत्थं श्रीकृष्णेन अर्जुनः उपदिष्टः युद्धाय सज्जः च बभूवः। श्रीकृष्णः तस्य सारथिः अभवत्। श्रीकृष्णस्य उपदेशः ‘भगवद् गीता' नाम ग्रन्थरूपेण प्रसिद्धः। नूनं, भगवद्गीता' भारतीयानाम् अमूल्यः निधिः वर्तते।
अद्यत्वे अपि जनाः गीतोपदेशम् अनुसरन्ति। श्रीकृष्णः ‘पूर्णपुरुषः' मन्यते। युद्धकला प्रवीणः, सर्वगुणसंपन्नः कृष्णः सर्वेषाम् आदर्शः अस्ति।
शानदार लेख
ReplyDeleteधन्यवाद