दीपावली पर संस्कृत निबंध। Diwali or Dipawali Sanskrit Essay
सर्वे मानवाः उत्सवप्रियाः सन्ति। भारतीयमहोत्सवेषु दीपावली उत्सवस्य स्थानं महत्वपूर्णमस्ति। यदा दीपानाम् आवल्यः प्रज्वाल्यन्ते तत् दीपावली उच्यते। अयमुत्सवः प्रतिवर्षं कार्तिक मासस्य कृष्णपक्षस्यामावस्यां महता उत्साहेन जनैः समायोज्यते। अमावस्यातः पूर्वमेव जनाः स्वेषां गृहाणां स्वच्छतां कुर्वन्ति, भवनानि सुघया लिम्पन्ति, द्वाराणि रञ्जयन्ति, नवीनमूर्ति-चित्रैश्च गृहाणि अलंकुर्वन्ति। दीपावली-दिवसे कान्दविकानामापणेषु विविधरागरञ्जितानि, बहुविधमिष्टान्नानि आकाशं स्पृशन्ति इव दृश्यन्ते। सर्वत्र चित्राणां पंक्तयः आपणानां शोभा वर्धयन्ति। रात्रौ अमावस्याः अंधकारे गृहाणामुपरि प्रज्वलिताः लघुदीपकपंक्तयः प्रकाशन्ते। जनाः नूतनवस्त्राणि धारयन्ति। रात्रौ लक्ष्मीपूजनं कुर्वन्ति। पूजान्ते स्वामित्रेभ्यो बांधवेभ्यश्च मिष्टानं वितरन्ति, एवं परस्पर-स्नेहभावं वर्धयते। बालकाः युवकाश्च आग्नेयक्रीडनकैः क्रीडन्ति। अस्मिन् दिने व्यवसायिनो नव्यासु पञ्जिकासु आयव्ययं लिखन्ति।
इदं कथ्यते यत् प्रभुरामचन्द्रः रावणं हत्वा स्वानुजेन लक्ष्मेण, भार्यया सीतया च सह कार्तिकमावस्यामेव अयोध्यामागतः आसीत्। तदा अयोध्यावासिनः तेषां स्वागतार्थं दीपमालाः प्रज्वाल्यन्। तदाप्रभृति अद्यावधि सर्वे भारतीयाः इमं उत्सवमतीवोल्लासेन मानयन्ति। किन्तु अत्र एकः महान् दोषः अस्ति, यत् दीपावल्याः पावनावसरे अपि केचन जनाः द्यूतक्रीडां कुर्वन्ति अतः अस्य उत्सवस्य पावनत्वं नश्यन्ति ते। द्यूतक्रीडाव्यसनं दूरतः परित्याज्यं यतः अनेन व्यसनेन धनं विनाश्यते, अयमुत्सवः दूषयते च। अस्मिन् पुण्यपर्वणि द्यूतक्रीडा पूर्णतः त्याज्या एव तथा अस्माभिः प्रसन्नतया प्रतिवर्षमयमुत्सवः सोल्लासं, सानन्दं च मानयितव्यः। अयं दिवज्ञः महर्षि दयानन्दस्य निर्वाण दिवसः अस्ति स महान आत्मा विश्वेभ्यः जनेभ्यः प्रकाश कृत्वा स्व प्राणान् अत्यजत्।
Nice website.
ReplyDeleteThe last one problem with writing is the most actual) If to speak sinceresly writing is not an easy task especially if you have no certain writing skills. That's why our company DigitalEssay.net helps students to write any type of scientific papers!
ReplyDelete